________________
-कल्प-स्तोत्रादि-सन्दोह ]--- __-[६७ ]
શ્રી રત્નશેખરસૂરિ વિરચિત શ્રાદ્ધવિધિ, પ્રથમપ્રકાશ. પત્ર ૬૦ (रेन अात्मान-६ समा प्रोशित)ी उत.
[३९] ततो विलक्षो मगधेश्वरः कुन्तखड्गतोमरादिप्रहरणैरभेद्यान् शत्रून् ज्ञात्वा पूर्वसाधितां स्वसिद्धां जरासुरसुन्दरीं स्मृत्वा यादवसैन्यहननाय रात्रावमुञ्चत् । जरासन्धेन मुक्ता सा जरा. मुन्दरी देवी रामहरि नेमि च विना सकलसैन्यानेष्वपरा कालरात्रिरिव प्रससार । तया जरादेव्या स्वैरं विज़म्भमाणया सा चमूः सर्वथा भ्रष्टचैतन्याऽपीपदुच्छ्वासमात्राऽभूत्। अथ प्रातः प्रबुद्धो विष्णुस्तद् निजं सैन्यं तथाविधं दृष्देषद् म्लानाननो नेमि प्रोवाच-हे बन्धों ! किमिदं जातम् ? तव पश्यतो ममैतत् सैन्यं मूच्छितमिव दृश्यते । स्वामिना श्रीनेमिना कृष्णवाक्यं श्रुत्वाऽवधिज्ञानं प्रयुक्तम् , तेन ज्ञानेन जरासुरसुन्दरीचेष्टितं ज्ञातम् । तज्ज्ञात्वा स्वामिनोक्तम्-हे हरे ! तव सैन्यं जरारूपया जरादेव्या ग्रस्तं वर्तते । हरिणोक्तम्-अथ किं कर्तव्यम् ? स्वामिनोक्तम्-शृणु हे हरे ! पाताले धरणेन्द्रस्य देवताऽऽलये महिमाऽधिका भविष्यत्पार्श्वनाथस्य त्रयोविंशतितमजिनस्य प्रतिमा विद्यते । अतस्त्वं त्रिभिरुपवासैस्तं धरणेन्द्रमाराध्य तां प्रतिमां याचस्व । स तु आराधितो भवत्मार्थितं पार्श्वबिम्ब दास्यति । तस्य पादाम्बुजस्नात्रपयसा सिक्तं तवेदं सैन्यं क्रमाद् मोहमुज्झित्वोत्थास्यति । पुनः श्रीनेमि प्रति हरिरुवाच-हे बन्धो! दिनत्रयं यावद् मयि ध्याननिरते, एनां सेनां