________________
-कल्प-स्तोत्रादि-सन्दोह ]
-[ ६९ ] तवेप्सितं शीघ्रं संपादयामि । देव्योक्तं श्रुत्वा हरिरुवाच-हे भगवति पद्म ! यदि तुष्टाऽसि तर्हि तव भवनस्थितमद्भुतं पाहिद्विम्बं मह्यं देहि, यथैतन्जरया अस्तं मम सैन्यं तत्स्नात्रवारिभिः सज्जीकरोमि । हरिणोक्तं श्रुत्वा पुनः पद्मावती प्राहहे हरे ! सा पाचप्रतिमाऽत्र नायाति, तां विनवाहं भवत्सैन्यं सचैतन्यं करिष्ये । पुनर्जरासन्धं ससैनिकं बव्वा क्षणादेव तव पुरतः समानयामीत्यादि यद् यद् भवदीप्सितं वदसि तत् सर्व क्षणादेव संपादया मे, न पुनः पाचप्रतिमां समानेतुमहं समुत्सहे। तत् श्रुत्वा पुनः कृष्णोऽवदत्-हे देवि ! त्वयैतत् सकलं भवति, परमित्यं कृतेऽस्माकं किश्चित् पौरुषं न, केवलं जनापवादो भवेत् , यद् देवतया सर्व संहारादि कृतम् । अतो यदि प्रसन्नाजस तर्हि मे पाश्वप्रतिमां देहि । यथाऽहं भवत्प्रसादेन स्वयमेव रणे रिपून् हन्मि । विष्णोरत्याग्रहतो भक्त्या च तुष्टा पद्मावती पार्श्वपतिमां समानीय दत्वा स्वस्थानमगमत् । ____ अथाच्युतः श्रीपाश्चतिमाऽची कृत्वा स्नात्रनलं लात्वा समग्रसैन्यमसिञ्चत् । तेन जलेन सिक्तं सैन्यं पुनः सुप्तोत्थितमिव तथैवोत्तस्थौ । तदुत्थितं सैन्यं सजीभूतं दृष्ट्वा सहर्षोत्कर्षमानसो रुक्मिणीपतिः परबलत्रासकरं स्वबलबलकरं पाञ्चजन्यं शङ्ख दध्मौ । तेन त्रालितं रिपुवलं, मुदितं च यादवसैन्यम् ।
इत्यादिवचस्तोषिताः सहदेवादयो जरासन्धपुत्राः स्वस्व. कार्यकरणायोद्यता अभूवन् । अथ केशवो लब्धजयः श्रीपार्श्व