________________
- कल्प- स्तोत्रादि - सन्दोह ] -
[ ६९ ] हृष्टचित्तः सन् उपवासत्रयं कृत्वा एकान्ते ध्यानपरस्तस्थौ । इतो जरासन्धो यादवसैन्यं विह्वलं ज्ञात्वा चतुरङ्गसेनां लात्वा अद्यायादव- पाण्डवां पृथ्वीं विधास्ये इति वाञ्छन् समाययौ । अथ श्रीनेमेरादेशात मातलिः स्वसैन्यस्य पृष्ठे रथं भ्रामयामास । तस्य निर्घोषशब्देन जरासन्धसैन्यं निश्रेष्टमिव बभूव । ततः प्रभुर्विश्वक्षोभकरं शङ्खनादं चकार । ततः शक्रेण दत्तं धनुः समारोप्य टङ्कारमकरोत् । ततः क्षणात् बाणवृष्टिभिः समग्रं समराङ्गणमपूरयत् । ततस्तस्य रथावत बाणवर्षे च भेत्तुमसमर्था जरासन्धपक्षराजानो रणे साक्षिण इव दूरे तस्थुः । ततः स्वामी करुणैकजलधिः केषाञ्चित् ध्वजं केषाञ्चित् कवचं धनुस्तूणीरादीन् चिच्छेद । न च कस्यापि प्राणान् जहार । इतः कृष्णस्य ध्यानासक्तस्य तृतीयदिवसे प्रभुपूजान्तरे स्थिता पद्मावती प्रकटीभूव । कृष्णोऽपि देवतापरिवृतां तां दृष्ट्वा भक्त्या प्रणम्य स्तुतिपूर्वकमिति प्राह ।
“धन्योऽद्याहं कृतार्थोऽस्मि पवित्रोऽद्यास्मि पावने । अद्य मे सफलाः कामा यदभूत् तव दर्शनम् ॥ १ ॥ वर्णयामि कियद् देवि ! वैभवं ते स्वजिह्वया । शक्रादयोऽपि यद् वक्तुं शक्ता नो विबुधाधिपाः ॥ २॥ " इत्यादिवाक्यैः प्रसन्ना सा प्राह - हे कृष्ण ! किमर्थमहं स्मृताऽस्मि ? यत् कार्य भवति तत् कथ्यतामिति । ततः कृष्णः माह, हे देवि ! यदि त्वं तुष्टाऽसि, तर्हि यत् ते देवालये श्री पार्श्वनाथस्य बिम्बमस्ति तद् देहि । येन तस्य स्नात्रजलेना
I