________________
[६०]
-[ शङ्केश्वर-महातीर्थयजीविता अभूवन् । ततः प्रभाते कृष्णो निजसेनां तथाविधां दृष्ट्वा किश्चित् खेदव्यग्रमना अरिष्टनेमि प्रति इति प्राह अहो! भ्रातः! किमयमस्मत्सैन्ये अकाले क्षयकालः समुपस्थितः। सैनिका ह्येते सन्तोऽप्यसन्त इवाभवन् । रामस्तु गदाऽऽघातपीडितो वर्तते । इदानीं तु केवलमावां द्वौ कुशलिनौ स्वः। एष शत्रुस्तु छलपियो निःशेषसैन्ययुक्तश्च, सोऽस्माकं बलं निहन्तुं तत्परोऽस्ति । किञ्च तव बलस्याग्रे सर्वेऽपि सुरासुरेश्वरास्तृणायन्ते तत्रास्य बलं कियन्मात्रम् ? परं यावत् त्वं चित्ते न धारयसि तावदेवास्य बलं विद्यते । त्वयि समुद्यते तु सिंहाग्रे जम्बूकवत् स्थातुमशक्नोति (न शक्नोति)। तत इदानीं तव साहाय्यं कर्तु युज्यते एव । इति श्रुत्वा श्रीनेमीश्वरोऽवधिना विलोक्य कृष्णं माह, शृणु हरे! जरासन्धस्तव पराक्रनेण पराभूतोऽन्योपायं अप'श्यन् सैन्ये जरांमुमोच। तद्वशात् सर्वेऽपि ते ईदृशीमवस्थां प्राप्ताः। यद्यपि एक एव त्वं जरासन्धक्षयं कर्तुं समर्थस्तथा एतेऽपि जराग्रस्ताः सैनिका उपायं विना प्राणान् मोक्ष्यन्ति । ततस्तेषां सज्जीकरणोपायं शृणु, तथा हि-पाताले धरणेन्द्रस्य देवताऽऽलये भविष्यतः श्रीपार्श्वनाथस्य प्रतिमाऽस्ति । त्रिभिरुपवासैर्धरणेन्द्रमाराध्य तां प्रतिमां याचस्व । स च तुष्टस्तां दास्यति । तस्याः स्नात्रजलेनाभिषेके कृते एतत् सैन्यं सज्जं भविष्यति। ततः कृष्णः प्राह, त्रीणि दिनानि मयि ध्याननिष्टे सति सैन्यरक्षां कः करिष्यति ? तदा निःसङ्गोऽपि श्रीनेमियवहारं पुरस्कृत्य दिनत्रयं यावत् सैन्यरक्षा स्वयमङ्गीचकार। ततः कृष्णोऽपि