________________
[ ६२ ]
-[ शलेश्वर-महातीर्थभिषिच्य जरा ग्रस्तमेतत् सैन्यमुज्जीवयामीति । ततो देवी माह, हे कृष्ण ! श्रीनेमिरेव जगतो रक्षायां समर्थः । स्वामी जगत्प्रभुः जगद्गुरुर्जगत्पूज्यो जगदेकवीरः, सर्वसुरासुरवन्दितः, तस्याग्रतः का जरा ? को जरासन्धः ? कियन्मात्रं च सर्वेऽपि सुरासुराः ? तस्याज्ञां प्राप्याहमेव जरासन्धं ससैन्यं बद्ध्वा तवाग्रे मुञ्चामि अथवा यद्यद् वाञ्छसि तत्तत् तवेप्सितं करोमि । ततः कृष्णः माह, हे देवि ! त्वयि तुष्टायां सर्वमप्येतत् सुलभं, परं मया श्रीनेमेरादेशात् त्वमाराधिताऽसि । त्रिजगद्विख्यातमाहात्म्यस्य श्रीनेमेः पौरुषं जगति को न जानाति ? परं तथा कृते सत्यस्माकं पौरुषं अफलं भवति । ततः प्रसादं कृत्वा प्रतिमामेव अर्पय, यथाऽहं स्वयमेव शत्रून् निराकरोमि । इति कृष्णाग्रहात् पद्मावती दिव्यशक्त्या तां प्रतिमां तत्रानीय कृष्णाय दत्वा स्वस्थानं जगाम । अथ कृष्णः समुल्लसन्मनाः तस्याः प्रतिमायाः स्नात्र पूजादिभक्ति कृत्वा स्नात्रजलेन सर्वसैन्यमभ्यषिञ्चत् ।
तज्जलस्पर्शनादेव पुनर्नवावतारमिव लब्धचैतन्यं सैन्यं समुत्तस्थौ । ततः प्रलयकालीनसमुद्रमिव दुर्द्धरं समुद्रविजयं प्रणम्य सहर्षः कृष्णः पाञ्चजन्यशङ्खस्य नादमकरोत् । तच्छद्रश्रवणात् जरासन्धस्य सैन्ये महान् निर्घातोऽभवत् । ततो भगवान् अरिष्टनेमिर्लक्षशो नृपाणां गर्वापहारं विधाय 'प्रतिवा - सुदेवस्तु वासुदेवस्यैव वध्य' इति जरासन्धं जीवितं मुक्त्वा दिनत्रयं सन्यरक्षां कृत्वा सैन्ये सज्जे जाते रणात् न्यवर्त्तत । अथ बलभद्रोऽपि प्रहारव्यथामवधूय सज्जीभूतः सन् मुशलास्त्रेण