________________
- कल्प- स्तोत्रादि- सन्दोह ]
- [ ५५ ]
॥४०॥
स्वकारितेशाचलचारुचैत्ये निवेशितः सज्जनमन्त्रिणा यः स रोपितः स्वः शिखरीव सौधाङ्गणेऽस्य जज्ञेऽखिलसिद्धिदायी । ३९ निःस्वादिवैश्वर्यमनाप्य झंझएरार्कनो दुर्जनशल्यभूमान् । रूपं यतः स्मारमिवाप्य देवसद्मेव यच्चैत्यमची करच्च पद्मावती प्राणपतिः प्रसूनाशनी भविष्णुश्चरणारविन्दे | तन्तन्यते यन्महिमानमुर्व्या सरोजसौरभ्यमिवाहिकान्तः ॥ ४१ ॥ यो ध्वंसतेऽष्टापि दरान्नराणां व्यालान्ववायानिव वैनतेयः । शयेशयालूः पुनरष्टसिद्धीः प्रणेमुषां यः कुरुते कृपालुः ॥४२॥ ऊर्जस्वलत्वं कलयन् कलौ यो निधिर्महिम्नां महसामिवांशुः । जागतिं शङ्खश्वरपार्श्वनाथः श्रेयःपुरीप्रस्थितपान्थसार्थः॥४३॥ શ્રી હીરસૌભાગ્ય મહાકાવ્ય " सर्ग १ थी उद्धृत.
".
अपूपुजत् त्वां विनमिर्नमिश्च वैताढ्यशैले वृषभेशकाले । सौधर्मकल्पे सुरनायकेन त्वं पूजितो भूरितरं च कालम् ॥१॥ आराधितस्त्वं समयं कियन्तं चान्द्रे विमाने किल भानवेऽपि । पद्मावतीदेवतया च नागाधिपेन देवावसरेऽर्चितस्त्वम्
॥२॥
यदा जरासन्धमयुक्त विद्याबलेन जातं स्वबलं जरार्तम् । तदा मुदा नेमिगिरा मुरारिः पातालतस्त्वां तपसा निनाय ॥३॥ तव प्रभोस्तान्त्रजलेन सिक्तं रागैर्विमुक्तं कटकं वभूव । संस्थापितं तीर्थमिदं तदानीं शङ्खे श्वरास्यं यदुपुङ्गवेन ||४|| तथा कथञ्चित् तव चैत्यमत्र श्रीकृष्णराजो रचयाञ्चकार । द्वारकास्थोऽपि यथा भवन्तं ननाम नित्यं किल सप्रभावम् ॥ ५॥