________________
[५४]
-[शलेश्वर-महातीर्थदेवध्यानपरास्ते चानशनेन दिवं गताः। शखेश्वरजिनाधीशाधिष्ठायकसुरोऽभवत् ॥८६॥
શ્રી ઇન્દ્રસગણિવિરચિત “ઉપદેશકઃપવલ્લી” પલ્લવ ૨૫, પત્ર ૨૨૯ થી ઉત.
[२४] देशे पुनस्तत्र समस्ति शखेश्वरोऽन्तिकस्थायुकनागनाथः। धात्रा धरित्र्यां जगदिष्टसिद्धयै मेरोरिवादाय सुरगुरुप्तः ॥३१॥ विद्याधरेन्द्रौ विनमिर्नमिश्च यद्विम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि विडोजसा यत् स्वधाम्न एव स्पृहयेव सिद्धेः॥३२॥ तेनाथ मुक्तं गिरिनारिश्रृङ्गेऽधिगम्य माणिक्यमिवामराणाम्। नीत्वात्मधाम्नोविंधुपद्मपाणी यदाचतां निवृतिमीहमानौ ॥३३॥ वाभ्यां ततः स्थापितमुज्जयन्ते पार्श्व स्वसर्वस्वमिवावसाय । आखण्डलः कुण्डलिनां क्रमेण सभाजनायानयदात्मधानि ॥३४॥ गिराऽथ नेमेररविन्दनाभिरुपास्य पदाप्रियमष्टमेन । . आनाययत् तेन जिनं तमात्मद्विषजयं मूर्तिमिवाश्रयन्तम् ॥३५॥ ततो जरा येन यवहानां न्यवारि वारा स्नपनोद्भवेन । बाणस्य कुष्टं वपुषस्त्विषेव राजीविनीजीवितवल्लभेन ॥३६॥ यत्रास्ताऽध्मायि निजध्वजिन्यास्त्राणाय कम्बुर्धमता समन्तात् । तत्राच्युतेनारिजयप्रशस्तिरिवात्मनः शङ्खपुरं न्यधायि ॥३७॥ वसुन्धराया इव वैजयन्तं निर्माप्य चैत्यं सुरगोत्रमित्रम् । निवेशयामास सुवर्णविन्दुरानन्दसान्द्रोऽत्र जिनेन्द्रबिम्बम्॥३८॥