________________
[५०]
-[शलेश्वर-महातीर्थ- .
[२१] तस्मिन्नवसरे नागपुरे ऊकेशवंशभूः। सट्टत्तः सद्गुणः श्रीमान् सुभटः साधुराईतः ॥६१६॥ श्रीशङ्केश्वरजिनाधीशं नमस्कर्तुमभिग्रही । आयासीत् स्वकुटुम्बेन समं भोगादिवस्तुयुग्॥६१७॥[युग्मम् चौररुपद्रुतो मार्गे मनाग् दूनमनाः पुनः । श्रीपार्थप्रतिमां भक्त्या प्रपूज्यासौ व्यजिज्ञपत् ॥६१८॥ तव देवाधिको लोके महिमा महितोऽभितः । सर्वदेवप्रभाजैत्रस्त्रिदशैरपि गीयते
॥६१९॥ विश्वविश्वप्रभो ! नूनं त्वं विश्वे प्रणतोऽपि च । कुरुषे सम्पदः सर्वाः संरुद्धय विपदः पुनः ॥२०॥ नाम्नापि हि विलीयन्ते व्याधयो विविधा अपि। सहोदरन्ति सर्वत्र चौराः क्रूरा अपि प्रभोः ॥२१॥ जगतोऽपि जगन्नाथ ! रक्षायामसि दीक्षितः । परं स्ववेश्मरक्षायै देव ! मन्दायसे कुतः ॥६२२॥ नन्तुं भवन्तमानन्दान्ममैवागच्छतः सतः। तव पूजादिसामग्री लुण्टिता तस्करैः पथि ततः कामिततीर्थत्वख्यातिर्जाता वृथा तव । यो गृहे लघुतां प्राप्तः स वातैीयते बहिः ॥६२५॥ भक्तिमुग्धस्य तस्येति श्रुत्वा वाचो यथास्थिताः। तदानीमागतः सोऽपि सुरः प्रत्यक्षमब्रवीत् ॥६२५॥