________________
-कल्प-स्तोत्रादि-सन्दोह ] -
-[ ४९ ] ससङ्घास्तीर्थयात्रायै चलन्तश्च ते वर्त्मनि । अतीव तपसा क्लान्ता दिवं प्राप्ता समाधिना ॥६००॥ श्रीशङ्खेश्वरतीर्थेशाधिष्ठायकतया तदा । आसनसिद्धयोऽप्यासंस्तादृग् ध्यानविशेषतः ॥६०१॥
શ્રી જિનહર્ષગણિ વિરચિત, પં. હીરાલાલ હંસરાજ પ્રકાશિત " श्री वस्तुपालयरित्र" प्रस्ताव ८, ५. ५१८ थी कृत.
[२०]
ततश्चन्द्रावतीं प्राप्य समं दयितया तया । साधर्मिकाणां वात्सल्यमतुल्यं सचिवो व्यधात् ॥ १५५ ॥ तनिवासिजनश्रेणिं भोजनाच्छादनादिभिः । तथा सन्तोषयामास समं तत्रत्यभूभुजा॥१५६॥[युग्मम्] पापत् प्रहादनाधीशं श्रीपार्श्व प्रणिपत्य सः। ततः सत्यपुरे श्रीमद्वीरबिम्बनिनंसया ॥१५७ ॥ श्रीवीरं तत्र गाङ्गेयं प्रपूज्य विधिना सुधीः। आर्हतानां च वात्सल्यं मुनीनां पूजनं व्यधात् ॥१५८ ॥ ततः शङ्गेश्वराधीशमभ्यर्च्य पन्नगध्वजम् । धवलक्कपुरं प्रापदतुच्छोत्सवपूर्वकम् ॥१५९॥
શ્રી જિનહર્ષગણિરચિત, પં. હીરાલાલ હંસરાજ પ્રકાશિત “શ્રી परतुपास यरित्र" प्रस्ताव ८, पृ. ४९८ था त.