SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [४८] - [शलेश्वर-महातीर्थ [१९] दशवर्षाणि कुर्वाणस्तत्पदं सम्पदा पदम् । तथैव विदधे दानं तेजःपालोऽथिनां पुनः ॥५९०॥ श्रीशखेश्वरजिनाधीशं व्रजन् नन्तुं कुटुम्बयुग । तेजःपालोऽगमत् स्वर्ग चन्द्रोन्मानपुरे क्रमात् ॥५९१॥ तत्र श्रीजैत्रसिंहेन गजाश्वरचनाश्चितम् । सतोरणं जिनाधीशमन्दिरं मन्दरोपमम् ॥५९२॥ सरोवरं तथा धर्मशालासत्रालयद्वयम् । विदधे श्रेयसे तस्य मन्त्रिणो नृपशासनात् ॥५९३॥ (युग्मम्) सर्वज्ञशासनाकाशभास्वत्यस्तं गते सति । वस्तुपाले महामात्ये धर्माधारधुरन्धरे ॥५९४॥ दिवस्पतिपदं प्राप्ते वर्द्धमानजिनेशितुः । क्रूरदोषान्धकाराणां व्याप्तिमालोक्य शासने ॥५९५॥ श्रीवर्द्धमानसूरीशा अजिह्मब्रह्मवेदिनः। विशेषोत्पन्नसंवेगरगा निस्सङ्गवृत्तयः ॥५९६॥ वृद्धगच्छगणाधीशास्तदा संविग्नपाक्षिकाः। वर्धमानतपश्चक्रुराचाम्लैरेव केवलम् .... ॥५९७॥ . (चतुभिः कलापकम्) शखेश्वरमहातीर्थनमस्करणपूर्वकम् । अस्माभिः पारणं कार्य समाप्तौ तपसः पुनः ॥५९८॥ सङ्घलोके च सर्वस्मिन् कुर्वाणे पारणाग्रहम् । निरपेक्षाःशरीरेऽपि तेऽभिग्रहमिति व्यधुः॥५९९॥ (युग्मम्)
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy