________________
-कल्प-स्तोत्रादि-सन्दोह ]
-[४५] जरासन्धोऽथ रोषान्धः प्रतिकृष्णं निजं रथम् । अचालयच्छरासारैः कुर्वन् वैरिषु दुर्दिनम् ॥६४६॥ कृष्णवर्देव कृष्णोऽपि वैरिकाष्ठेषु दुस्सहः। आस्पदं तेजसामेकं दधावे स्यन्दनस्थितः ॥६४७॥ तयोः स्यन्दनयोश्चक्रपिष्टा भूः कणशोऽभवत् । गतागतैश्च विश्वेऽपि प्रक्षोभो रणधुर्ययोः ॥६४८॥ आयसैरायसान्यस्तैर्दिव्यैर्दिव्यानि तौ मिथः । अत्राणि जनतुर्वीरौ भयाद् दृष्टौ सुरैरपि ॥६४९॥ प्रक्षीणास्त्रोऽथ चक्रस्य जरासन्धोऽस्मरद् रुषा । तच्च वहिकणाकीर्ण तत्पाणौ द्रुतमागमत् ॥६५०॥ गोप ! गर्व विमुच्याद्याप्याज्ञां मन्यस्व मेऽधुना। जीवन् पुनः स्वकर्मत्वं लप्स्यसे चारणं गवाम् ॥६५१॥ न चेचक्रमिदं कृष्ण ! मूर्द्धानं तव भेत्स्यति । विब्रुवाणं जरासन्धमिति तं प्राह माधवः ॥६५२॥ (युग्मम्) हत्ला तां गामहं सत्यं पाताऽस्मि निजकर्मतः। मुश्च चक्रं जरासन्ध ! चिरयस्यधुना कथम्? ॥६५३॥ जरासन्धोऽपि रोषेण भ्रमयित्वा विहायसि । चक्रं मुमोच कल्पान्तवह्निवद्भीतिदायकम् ॥६५४॥ तच्च प्रदक्षिणीकृत्य कृष्णं कृष्णकरे ययौ ।
स्वमर्द्धचक्रिणं जानन् कृष्णस्तद्रिपवेऽमुचत् ॥६५५॥ चक्रकृत्तगलनाल आपतद् भूतले मगधभूपतिर्दृतम् । पाप च प्रचुरकमभारितस्तुर्यनारकसखित्वमाकुलः ॥६५६॥