________________
[४४]
-[ राजेश्वर-महातीर्थततः कृष्णोऽवदद् देवि ! त्वयैतत् सकलं भवेत् । इत्यं कृते न चास्माकं पौरुषं किश्चिदीक्ष्यते ॥६३८॥ ततो यदि प्रसन्नाऽसि तत् तामचा ददस्व मे। प्रसादात् ते यथा हन्मि स्वयमेष रिपून रणे ॥६३९।। इत्यत्याग्रहतो विष्णोर्भक्त्या पद्मावती ततः। स्मृत्वाऽ! तां समानीय दत्त्वाऽस्मै तु तिरोदधे ॥६४०॥ अथाच्युतोऽर्चाचरणच्युतस्नात्रजलेन सः। असिञ्चत् सैन्यमखिलं तदुत्तस्थौ च तत्क्षणात् ॥६४१॥ पाश्चजन्यं तदा दध्मौ सहर्षी रुक्मिणीपतिः। तद्रवाकर्णतो जातो निर्घातो वैरिणां यथा ॥६४२॥ ततो लक्षं नृपान् जित्वा जरासन्धं जिनोऽमुचत् । प्रतिविष्णुर्विष्णुनैव वध्य इत्यनुपालयन् ॥६४३॥ जातेऽथ सकले सैन्ये रणसज्जे जिनेश्वरः। विरराम रणात् सैन्यरक्षायै केवलं स्थितः ॥६४४॥ तद्यथामवधूयाथ लागली धृतलागलः। बहुशश्चूर्णयामास मुशलेन रिपुव्रजान् ॥६४५॥ १ पं. हीरालालदेवचन्द्रसंशोधिते ग्रन्थेऽयं पाठोऽधिकः
परं ते स्मरणं मातः! कृतं मे नेमिशासनात् ॥१॥ त्रिजगन्मान्यमद्वन्धोर्महिमानं न वेत्ति कः?। २ पं. हीरालालदेवचन्द्रसंशोधिते ग्रन्थे इदं पद्यमधिकं दृश्यते
ततः प्रलयकालीनसमुद्रमिव दुर्द्धरम् । समुद्रविजयं नत्वा हरिराजिरसोऽभवत् ॥१॥