________________
कल्प-स्तोत्रादि-सन्दोह ]
-[४३ ] वर्णयामि कियद् देवि ! वैभवं ते स्वजिदया। शक्रादयोऽपि यद्वक्तुं सम्यग् नो विबुधाधिपाः ॥६३१॥ इति भक्तिवचःमीता माह सा परमेश्वरी। यत्कृते संस्मृता कृष्ण ! भवताऽहं तदुच्यताम् ॥६३२॥ अवोचदच्युतः श्रुत्वा तद्वचः परमेश्वरि । यदि तुष्टाऽसि तद् देहि पाहिद्विम्भमद्भुतम् ॥६३३॥ यर्थतज्जरया ग्रस्तं सैन्यं तत्स्नात्रवारिभिः । सज्जीभूय रिपून् हन्ति सदा त्वां पूजयत्यपि ॥६३४॥ *अथो 'पद्मावती प्राह कृष्ण ! साऽर्चाऽत्र न व्रजेत् । तां विनेदं भवत्सैन्यं सचैतन्यं करोम्यहम् ॥६३५॥ अथैनं ते रिपुं हन्मि जरासन्धं ससैनिकम् ?* बवाऽथ पुरतः तेऽमुं क्षणादेव समानये ॥६३६॥ यद्यद् वदसि तत् सर्व करोमि भवदीप्सितम् । न पुनः प्रतिमामत्र समानेतुं समुत्सहेर ॥६३७॥
१ पं. हीरालालदेवचन्द्रसंशोधिते ग्रन्थे *...* इति पुष्पद्वयान्तर्गतपाठस्थाने एतत् पद्यत्रयं वर्तते--
अथो पद्मावती प्राह कृष्ण ! त्वबन्धुरेव हि । श्रीनेमिविजयी यत्र जगद्रक्षाक्षमो विभुः जगत्प्रभुर्जगद्व्यापी जगद्वीरो जगद्गुरुः । सर्वदर्शी च सर्वज्ञो जिनो योगीश्वरैर्नुतः तदने का जरा कोऽसौ जरासन्धश्च के सुराः। तदाज्ञयाऽरिं ते हन्मि जरासन्धं ससैनिकम् ॥३॥
२६. हीरालालदेवचन्द्रसंशोधिते ग्रन्थे 'न पुनः प्रतिमामत्र समानेतुं समुत्सहे' इति पाठो नास्ति ।
॥२॥