SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ - कल्प- स्तोत्रादि- सन्दोह ] -[ २९ ] रणाङ्गणे धीरमृगारिनादैः पलायमानाखिल भी रुलोके । जयं लभन्ते मनुजास्त्वदीयपदाब्जसेवाप्रथितप्रसादाः || १०३ || ( युग्मम् ) उत्तालभूयः पवमानवेगादुल्लोलकल्लोलसहस्रभीष्मे | समुच्छलत्कच्छपनक्रचक्रसङ्घट्टनाभङ्गुरयानपात्रे ॥१०४॥ पतन्महाशैलशिलारवेण गलत्प्रमीलीकृतपद्मनाभे । श्रियं लभन्ते भवतः प्रभावात् सांयात्रिका वीतभियः पयोधौ ॥ १०५ ॥ ( युग्मम् ) जलोदरा दत्तदरा न जातु ज्वराः प्रशान्तप्रसरा भवन्ति । न पुष्टतां कुष्टरुजः प्रमेहा विदीर्णदेहा न समुद्भव ( वह ) न्ति ॥१०६॥ भगन्दरः प्राणहरः कथं स्यात् क्षणाद् व्रणानां क्षयमेति पीडा । ब्रूमः किमन्यत् तत्र नाममन्त्राद् रुजः समस्ता अपि यान्ति नाशम् ||१०७ || ( युग्मम् ) आपादकण्ठार्पितश्रृङ्खलौघा व्रणैर्विशीर्णाः प्रतिगात्र देशम् । व्यथावशेन क्षणमप्यशक्ता उच्छ्वासमुल्लासयितुं समन्तात् ॥ १०८॥ दशामवाप्ता भृशशोचनीयां विमुक्तरागा निजजीवितेऽपि । नरा जपन्तस्तव नाममन्त्रं क्षणाद् गलबन्धभया भवन्ति ॥ १०९ ॥ ( युग्मम् ) इत्यष्टभीतिदलनप्रथितप्रभावं नित्याववोधभरबुद्धसमग्रभावम् । विश्वातिशायिगुणरत्नसमूहधाम ! त्वामेव देव ! वयमीश्वरमा - श्रयामः ॥ ११० ॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy