SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [२८] -[ शङ्केश्वर-महातीर्थमदाम्बुलुभ्यभ्रमरारवेण प्रवृद्धरोषं गिरितुङ्गकायम् । अश्रान्तमान्दोलितकर्णतालं प्रोन्मूलयन्तं विपिनं विशालम्॥९४॥ करमहारैः कुलिशानुकारैः सन्त्रासयन्तं बहुवन्यजन्तून् । अभ्यापतन्तं द्विरदं निरीक्ष्य भियं जनास्त्वच्छरणा न यान्ति॥९५॥ (युग्मम्) विदीर्णदन्तिव्रजकुम्भपीठव्यक्तक्षरद्रक्तरसप्रसक्तम् । गिरिप्रतिध्वानकरैः प्रणादैविध्वंसयन्तं करिणां विनोदम् ॥१६॥ अतुच्छपुच्छस्वनवारबिभ्यद्वराहमातङ्गचमूरुयूथम् । मृगारिमुवीक्ष्य न शङ्कते ते नाम स्मरन् नाथ! नरो नितान्तम्॥९७॥ ___ (युग्मम् ) तमालहिन्तालरसालतालविशालसालव्रजदाहधूमः। दिशः समस्ता मलिना वितन्वन्दहनिवा_प्रसृतैः स्फुलिङ्गैः॥९८॥ मिथो मिलज्जालजटालमूर्तिर्दवानलो वायुजवात् करालः । त्वदीयनामस्मरणैकमन्त्राद् जलायते विश्वजनाभिवन्ध ! ॥१९॥ (युग्मम् ) स्फुरत्फणाडम्बरभीमकायः फूत्कारभारैरुदयविषायः । उल्लालयन् क्रूरकृतान्तदंष्ट्राद्वयाभजिह्वायुगलं प्रकोपात् ॥१००॥ पापाणुभिः किं घटितः पयोदश्यामः फणीन्द्रस्तव नाममन्त्रात् । भृशं विशङ्ख बजतां समीपे न भीतिलेशं तनुते नराणाम्॥१०१॥ (युग्मम् ) भटासिभिन्नद्विपकुम्भनियन्मुक्ताफलैस्तारकिताभ्रदेशे । धनुर्विमुक्तैस्तव काण्डपृन्दैः प्रदर्शिताकाण्डतडिद्विलासे ॥१०२॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy