________________
- कल्प-स्तोत्रादि- सन्दोह ]
- [ २७ ]
॥८८॥
स्वतः प्रवृत्तैर्जिन! दर्शनस्य ते मतान्तरैश्चेत् क्रियते पराक्रिया । तदा स्फुलिङ्गैर्महतो हविर्भुजः कथं न तेजः प्रसरत् पिधीयते ? ॥ ८४ ॥ स्फुरन्नयावर्तमभङ्गभङ्गतरङ्गमुद्यत् पदरत्नपूर्णम् । महानुयोगहू दिनी निपातं भजामि ते शासनरत्नराशिम् ||८५ || तवोपदेशं समवाप्य यस्माद विलीनमोहाः सुखिनो भवामः । नित्यं तमोराहु सुदर्शनाय नमोऽस्तु तस्मै तव दर्शनाय ॥८६॥ न नाम हिंसाकलुषत्वमुच्चैः श्रुतं न चानाप्तविनिर्मितत्वम् । परिग्रही नो नियमोज्झितानामतो न दोषस्तव दर्शनेऽस्ति ॥८७॥ 'महाजनो येन गतः स पन्था' इति प्रसिद्धं वचनं मुनीनाम् । महाजनत्वं च महाव्रतानामतस्तदिष्टं हि हितं मतं ते समग्रवेदोपगमोन केषुचित् कचित् त्वसौ बुद्धसुतेऽपि वृत्तिमान् । अशेषतात्पर्यमतिप्रसञ्जकं ततोऽपुनर्बन्धकतैव शिष्टता ॥ ८९ ॥ न वासनायाः परिपाकमन्तरा नृणां जडे तादृशतेति सौगताः । न कापिलास्तु प्रकृतेरधिक्रियाक्षयं तथा भव्यतयेति ते गिरः ॥ ९० ॥ इहापुनर्वन्धकभावमन्तरा विभर्ति वाणी तब कर्णशूलताम् । विना किमारोग्यमतिं ज्वरोदये न याति मिष्टान्नततिविषात्मताम् ॥९१॥ शास्त्राणि हिंसाभिधायकानि यदि प्रमाणत्वकथां भजन्ते । हविर्भुजः किं न तदातितीत्राः पीयूष साधर्म्यमवाप्नुवन्ति ॥ ९२ ॥ विधाय मूर्धानमधस्तपस्यया किमुच्चमन्त्रत्रतशीलशीलनैः । श्रुतं नराश्वरनाम विश्रुतं किमत्र विद्यावजवीजमुज्ज्वलम् ॥९३॥