SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [२६] -[ शर्केश्वर-महातीर्थन पाटवं कामघटस्य दाने भिदेलिमस्योपलतः क्षणेन । सदा प्रदानोत्सवकान्तकीर्तिं विहाय तत्त्वां सजतीह को वा?।७३। त्वत्तः प्रसीदन्ति हि कामधेनुकल्पद्रचिन्तामणिकामकुम्भाः। त्वदमसत्तौ च तदप्रसत्तिरिति खमेवासि बुधैनिषेव्यः ॥७४॥ कायप्रयासेन निषेव्यमाणाश्चिरं नृपाः स्वल्पकृपा भवन्ति । भवांस्तु भक्त्यैव तनोति सर्वमनोरथान् इत्यखिलातिशायी॥७५॥ स्वर्गापवर्गापणसावधानं खां याचते वैषयिकं सुखं कः ?। कल्पद्रुमं को बदरीफलानि याचेत वा चेतनया विहीनः ॥७६॥ खदीयसेवा विहिता शिवार्थ ददाति भोगानपि चानुषङ्गात् । कृषीवलाः शस्यकृते प्रवृत्ताः पलालजालं खनुषगसङ्गि ॥७७॥ सितोपला खद्वचसा विनिर्जिता तृणं गृहीत्वा वदने पलायिता। क्षणादसङ्कुच्यत हारहूरया ततस्त्र(त्र)पानिर्गतकान्तिपूरया ।७८। रसैगिरस्ते नवभिमनोरमाः सुधासु दृष्टा बहुधाऽपि षड् रसाः। अतोऽनयोः कः समभावमुच्चरेवरेण्यहीनोपमितिर्विडम्बना ।७९। तृणैकजात्येषु यदल्पसारता विचक्षणैरिक्षुषु दिक्षु गीयते । समग्रसारा तव भारती ततः कथं तदौपम्यकथाप्रथाऽसहा॥८॥ भवद्वचःपानकृतां न नाकिनां सुरद्रुमाणां फलभोगनिष्ठता। द्विधाप्यमीषां न ततः प्रवर्तते फलैत्रपाभिश्च न भारनम्रता॥८१॥ प्रकाममन्तःकरणेषु देहिनां वितन्वती धर्मसमृद्धिमुच्चकैः। चिरं हरन्ती बहु पङ्कसङ्करं सरस्वती ते प्रथते जगद्धिता ॥८२॥ स्फुरन्ति सर्वे तव दर्शने नयाः पृथग् नयेषु प्रथते नतत् पुनः। कणा न राशौ किमु कुर्वते स्थिति कणेषु राशिस्तु पृथग न वर्तते ॥८३॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy