________________
-कल्प-स्तोत्रादि-सन्दोह ]
-[ २३ ] त्वदास्यसंवीक्षणशर्मवञ्चिते नयोज्झितानां नयने निरर्थके । भवत्कथाकर्णनरागहीनयोर्न भारतोऽन्यत् फलमस्ति कर्णयोः।४४। पुष्पाणि पाणिर्न ललौ यदीयस्त्वदीयपूजाविधये प्रमादात् । अमुष्य दूरे भवदुःखहानिर्भाग्योज्झितस्येव सुवर्णखानिः॥४५॥ भूयासमिन्द्राय॑ ! भवद्भुजिष्यस्तव क्रमाम्भोजमधुव्रतः स्याम्। वहेय मौलौ परमां त्वदाज्ञां स्तवे भवेयं तव सावधानः ॥४६॥ त्वमीशिताहं तव सेक्कश्चेत् ततः परा का पदवी विशिष्टा ?। समेधमानेऽत्र हि सनिक पुरन्दरद्धिः प्रथते पुरस्तात् ॥४७॥ परेषुदोषास्त्वयि दव! सद्गुणा मिथोऽवलेपादिव नित्यमासते। स्फुरन्ति नेन्दावपतन्द्रचन्द्रिकास्तमोभरा वा किमु
सिंहिकासुते ? ॥४८॥ विशङ्कमङ्के दधते विलासिनीविशिष्टमिच्छन्ति च देवतायशः। परे तदेते ज्वलता हविर्भुजा वितन्वते तापसमापनार्थिताम् ॥४९॥ कुदृष्टिभिर्देवतयाश्रितेषु वा परेषु दोषोऽस्ति न नाम कश्चन । न मूढरूप्यभ्रमभाजनेष्वपि प्रवर्तते रङ्गगणेषु दुष्टता ॥५०॥ सरागता चेजिनदेवमाश्रयेत् तमस्तदा तिग्मरुचं पराभवेत् । विरागता वा यदि तं न संश्रयेत् तदा प्रकाशोऽपि न ।
भानुमालिनम् ॥५१॥ गवां विलासास्तव देव ! भास्वतस्तमोभरघ्नन्ति भुवि प्रसृत्वरम्। अशेषदोषोपशमैकवृत्तयः प्रकाशमन्तः परमं प्रकुर्वते ॥५२॥ इदं महचित्रमहीनजातिजोऽप्युदग्रभोगप्रसरात् पराङ्मुखः। जनार्दनायोगकृतप्रसिद्धिभाग न वैनतेयश्रियमातनोऽसिन॥५३॥