SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ [ २४ ] -[ शङ्केश्वर-महातीर्थ जिनाऽसहायेन विनिर्जितक्रुधा विना जिगीषां च विना रणोत्सवम् । त्वया जितं यद् द्विषतां कदम्बकं जगज्जनानन्दकरं न किन्तु तत् ॥ ५४ ॥ उपेक्षमाणोऽप्युपकृत्य कृत्यविज्जगत्त्रयीं यद् दुरिताददीधरः । परः सहस्रा अपि हन्त ! तत्परे यशो न शोद्धुं निरताः प्रतारकाः ।। ५५ ॥ हरेः समीपे हरिणा यदासते स्फुरन्ति नागाः पुरतो गरुत्मतः । अयं प्रभावस्तव कोऽप्यनुत्तरो विपश्चितां चेतसि हर्षवर्षदः ||५६ || अलौकिकी योगसमृद्धिरुच्चकैरलौकिकं रूपमलौकिकं वचः । न लौकिकं किञ्चन ते समीक्ष्यते तथापि लोकत्वधिया हताः परे ॥ ५७ ॥ विनैव दानं ततदानकीर्तये विना च शास्त्राध्ययनं विपश्चिते । विनानुरागं भवते कृपावते जगज्जनानन्दकृते नमो नमः ॥५८॥ स्मरापहस्याप्यभवस्य विस्फुरत्सुदर्शनस्याप्यजनार्दनस्य च । न नाभिजातस्य तवातिदुर्वचं स्वरूपमुच्चैः कमलाश्रयस्य ॥ ५९ ॥ चतुर्मुखोऽङ्गीकृतसर्वमङ्गलो विराजसे यन्नरकान्तकारणम् । विरञ्चिगौरीशमुकुन्दसञ्ज्ञिता सुरत्रयी तत् त्वयि किं न लीयते । ६० । वृथा कथासौ परदोषघोषणैस्तव स्तुतिर्विश्वजनातिशायिनः । प्रसिद्धिहीनादनपेक्ष्य तुल्यतां भवेदलीकातिशयान्न वर्णना ॥ ६१ ॥ अलं कलङ्गैर्भणितैः परेषां निजैर्गुणैरेव तवास्ति शोभा । महोभरैरेव तव प्रसिद्धिः पतङ्गनिन्दानिकरैः किमस्य ? ॥ ६२ ॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy