________________
[२२]
-[शळेश्वर-महातीर्थध्यानानले सप्तभयेन्धनानि हुतानि तीवाभयभावनाभिः । इतीव किं शंसितुमीश! दधे मौलौ त्वया सप्तफणी जनेभ्यः॥३४॥ अष्टापि सिद्धीयुगपत् प्रदातुं किमष्टमूर्तिस्त्वमिहानतानाम् । सप्तस्फुरदीप्तफणामणीनां क्रोडेषु सङ्क्रान्ततनुर्दधासि ॥३५॥ यद्येकनालानि समुल्लसेयुः सरोवरे कोकनदानि सप्त । तदोपीयेत तवेश ! मौलौ तैरुच्चकैः सप्तफणी प्रदीमा ॥३६॥ भवेषु तीर्थेश ! चतुषु सारं मानुष्यकं यत्र तवारित सेवा । श्लाघ्यो हि शैलेषु सुमेरुरेव यत्राप्यते कल्पमहीरुहश्रीः ॥३७ नृजन्म दुःखैकगृहं मुनीन्द्रः प्रशस्यते त्वत्पदसेवयैव ।। सौरभ्यलोभात् मुधियः फणीन्द्ररप्यावृतं चन्दनमाद्रियन्ते ॥३८॥ अवाप्य मानुष्यकमप्युदारं न येन तेने तव देव ! सेवा। उपस्थिते तेन फले सुरद्रोः करार्पणालस्यमकारि मोहात् ॥३९। जनुमनुष्यस्य दिवः शतेन क्रीणामि चेनारिम तदाप्यविज्ञः। यत्र त्वदाज्ञाप्रतिपत्ति पुण्यादमुत्र तज्जैत्रमहोदयाप्तिः ॥४॥ स्तोमैः सुमानां तव देव ! पूजा पूज्यत्वहेतुर्जगतां जनानाम् । भवत्तनौ स्नात्रजलाभिषेकः साक्षादयं पुण्यसुरद्रुसेकः ॥४१॥ गुणैस्त्वदीयथितां स्तुतिस्रजं स्वयं च मे कण्ठगतां वितन्वते । अभङ्गसौभाग्यवशीकृता इव श्रियो वरीतुं परितो भ्रमन्त्यमुम्॥४२॥ विनोदवत् त्वन्नुतिगोचरं मनो घनोत्सवे मन्नयने त्वदीक्षिणी। खदङ्ग्रिनम्रो मम मौलिरालयः श्रियः प्रियस्त्वज्जपविस्तरः
करः ॥४३॥