________________
-कल्प-स्तोत्रादि-सन्दोह ]
---[२१] अकुर्वतः सम्पति लब्धबोधि समीहमानस्य परां च बोधिम् । न साम्प्रतं किञ्चन साम्प्रतं तद् दयस्व दीनं परमार्थहीनम् ॥२३॥ निर्वेदमुख्यं च भवन्तमेव नाथन्ति नाथं यतयो न चान्यम् । सुधार्थमुच्चैविबुधाः सुधांशु नाथन्ति नान्यं ग्रहमप्युदारम् ॥२४॥ त्वत्तो न तीर्थेश ! परः कुपालमत्तः कृपापात्रमपीह नान्यः । अतोऽस्ति योग्योऽवसरः कृपायाब्रुवे किमन्यज्जगदीशितारम।२५। अथास्ति चेदेष जनः समन्तुस्तथाऽप्यहो! ते किमुपेक्षगीयः?। सकण्टकं किं न सरोजखण्डमुन्मीलयत्यंशुभिरंशुमाली ॥२६॥ कृपावतां न स्वकृतोपकारे सदोषनिर्दोषविचारणाऽस्ति । समं घनः सिञ्चति काननेषु निम्यं च चूतं च घनाभिरद्भिः॥२७॥ मुख प्रसनं हसितेन्दुबिम्बं नेत्रे कृपाइँ जितपद्मपत्रे । पद्मासनस्थाच तनुः प्रशान्ता न योगमुद्रापितवाप्युतान्यैः ॥२८॥ त्वद्योगमुद्रामपि वीक्षमाणाः प्रशान्तवैराः पुरुषा भवन्ति । विशिष्य वक्तुं कथमीमहे तत् तवान्तरङ्गं प्रशमप्रभावम् ॥२९॥ मृतिस्तव स्फूतिमती जनाति विध्वंसिनी कामितचित्रवल्ली। विश्वत्रयीनेत्रचकोरकागां तनोति शीतांशुरुचां विलास ॥३०॥ फणामणीनां घृणिभिभुवीश ! मूर्तिस्तवाभाति विनीलकान्तिः। उद्भिनरक्ताभिनवप्रवाल परोहमिश्रेव कलिन्दकन्या ॥३१॥ तवेश ! मौलौ रुचिराः स्फुरन्ति फगाः फगीन्द्रप्रवरस्य सप्त । तमोभरं सप्तनगजनानां धृता निहन्तुं किमु सप्त दीपाः ॥३२॥ त्वन्मौलिविस्कारफगामगोनां भाभिर्विनिर्यत्तिमिरासु दिक्षु । स्वकान्तिकोतिप्रशमात् प्रदीपाः शिखामिषात् खेदमियो
द्विरन्ति ॥३३॥