________________
[२०]
--[ शकेश्वर-महातीर्थसंवादसारा भवदागमा यजगचमत्कारकराः स्फुरन्ति । उच्छङ्खलानां नियतं खलानां मुखे मषीलेपमहोत्सवोऽसौ ॥१२॥ भवन्तमुत्सृज्य विलीनरागं परं भजन्ते स्वहितार्थिनो ये । तेषां वयं देव ! सचेतनानां विद्मो विशेष किमचेतनेभ्यः ॥१३॥ मोहातानामपि शास्त्रपाठो हहा महानर्थकरः परेषाम् । रागैकलुब्धस्य हि लुब्धकेभ्यो वधाय नूनं हरिणस्य कर्णौ ॥१४॥ शमो दमो दानमधीतिनिष्ठा वृथैव सर्व तव भक्तिहीनम् । भावक्रियां नैव कविप्रबन्धो रसं विना यच्छति चारुबन्धः ॥१५॥ अन्तर्मुहूर्त विहितं तपोऽपि त्वदाज्ञया देव ! तमस्तृणेढि। विना तु ताहन्त ! युगान्तराणि कथापिन क्लेशकृतां शिवस्या१६॥ अज्ञानजं बन्धनमङ्गभाजां ज्ञानं विना देव ! कथं व्यपैति । अधर्मजं जाड्यमुपैति नाशं न धर्मरश्मेहि विना प्रतापम् ॥१७॥ न ज्ञानमात्रादपि कार्यसिद्धिविना चरित्रं भवदागमेऽस्ति । अपीक्षमाणः पदवीं न पङ्गुविना गतिं हन्त ! पुरं प्रयाति ॥१८॥ संसारसिन्धाविह नास्ति किश्चिदालम्बनं देव ! विना त्वदाज्ञाम् । तया विहीनाः परकष्टलीना हहा महामोहहताः पतन्ति ॥१९॥ महौषधी जन्मजरामयानां महागला दुर्गतिमन्दिरस्य । खानिः सुखानां कृतकर्महानिराज्ञा त्वदीयास्ति जिनेन्द्रचन्द्र !॥२०॥ रागं च कोपं च न नाथ ! धत्से स्तुत्यस्तुतीनां च फलं प्रदत्से। लोकोत्तरं किञ्चिदिदं त्वदीयं शीलं समाशीलितविश्वलीलम् ॥२१॥ त्वद्ध्यानबद्धादरमानसस्य त्वद्योगमुद्राभिनिविष्टबुद्धेः। तवोपदेशे निरतस्य शश्वत् कदा भविष्यन्ति शमोत्सवा मे ॥२२॥