________________
-कल्प-स्तोत्रादि-सन्दोह ]--- महानुभावस्य जनुजनुष्मतां गुणस्तवैरेव दधाति हृद्यताम् । घनं वनं कान्तवसन्तसम्पदा पिकीरवैरेव समृद्धमीक्ष्यते ॥२॥ अवयंसंवर्णनकश्मलाविलः स्वकार्यरक्तस्य कवेगिरां रसः । गुणस्तवैर्देव ! तवातिनिर्मलो भवत्यवश्यं कतकोत्करोपभैः ॥३॥ गुणास्त्वदीया अमिताइति स्तुता-बुदासते देव !नधीधना जनाः। मणिष्वनन्तेषु महोदधेरहो न किं प्रवृत्तेरुपलम्मसम्भवः ? ॥४॥ भवद्गुगैरेव न चेदवेष्टयं स्वयं गिरं चित्रकबल्लिमुच्चकैः । तदा न किं दुर्जनवायसैरसौ क्षगाद् विशीर्येत निसर्गभीपणैः ।।५।। न जानते नाथ! यथा पथःस्थितिप्रगल्भमानाथ नृपानुपासते। श्रियं लभन्ते च विशङ्खलाः खला इतीदमुच्चैः कलिकाल
चेष्टितम् ॥६॥ अमीषु तीर्थेश ! खलेषु यत् पटुभवद्भुजिव्यस्तदिहासि कारणम्। हविर्भुजां हेतिषु यन्न दाते करः परस्तत्र गुणो महामणेः ॥७॥ कलौ जलौघे बहुपङ्कसङ्करे गुणवजे मजति सज्जनार्जिते । प्रभो ! वरीवति शरीरधारिणां तरीव निस्तारकरीतव स्तुतिः॥८॥ खलैः किमेतैः कलिकाललालितैर्विपश्चितांनाथ ! यदि प्रसीदसि। पराक्रमः कस्तमसां महीयसां तनोति भासं महसां पतियदि॥९॥ अमूढलक्ष्यत्वमिहेश ! दुर्जने न सम्यगन्धाविव तत्वचालनम् । कथानु कोलाहलतां विगाहते ततः कथं नाथ! बुधःप्रवर्तताम्॥१०॥ यथा पथा यात्युपमृद्य कण्टकान् जनोमनोऽभीहितबद्धलालसः। त्वदाज्ञया देव ! निहत्य दुर्जनान् तथा विधेयैव कथा विपश्चिता॥११॥