________________
-कल्प-स्तोत्रादि-सन्दोह ]
- [ १५ ] तस्य प्रासादस्य समारचनाय बहून्यायद्वाराणि रचयन् , तत्सपर्यापर्याकुलतया नानाविधकुसुमक्षावलीसमलङ्कतमभिराममारामं च निर्माप्य, तचिन्तकेषु गोष्ठिकेषु नियुक्तेषु उदिते प्राक्तनान्तरायकर्मणि क्रमात् संहियमाणसम्पदधमर्णतया तत्र मानम्लानिमाकलय्यानतिदरवर्तिनि कापि ग्रामे कृतवसतिनंगरयातायातेन सुतोपात्ताजीविकः कियन्तमपि कालमतिवाहितवान् । अथान्यस्मिन्नवसरे सनिहिते चतुर्मासकपर्वणि तत्र यायिभिः सुतैः समंस धनदःशङ्ख पुरं प्राप्य निजप्रासादसोपानमधिरोहन , निजारामपुष्पलाविकयोपायनीकृत पुष्पचतुःसरिकः परमानन्दनिर्भरस्ताभिजिनेन्द्रमभ्यर्च्य, निशि गुरूणां पुरः स्वं दौस्थ्यममन्दं निन्दन् , तैः प्रदत्तकपर्दियक्षाकृष्टिमन्त्रोऽन्यदा कृष्णचतुर्दशीनिशीथे तमेव मन्त्रमाराधयन् , प्रत्यक्षीकृतात् कपर्दियक्षात् गुरूपदेशतश्चतुर्मासकावसरे पुष्पचतुःसरिकपूजापुण्यफलं देहीति प्रार्थयन् , तेन ‘एकस्यापि पूजाकुसुमस्य पुण्यफलं सर्वज्ञेन विना नाहं वितरीतुं प्रभूष्णुरि' ति; किं तु कपर्दियक्षस्तस्य साधर्मिकस्यातुल्यवात्सल्यसम्बन्धे तद्धाम्नि चतुर्यु कोणेषु सुवर्णपूर्णान् चतुरः कलशान् निधीकृत्य तिरोदधे । स प्रातः स्वसद्मनि समागतः धर्मनिन्दापराणां नन्दनानां तद् द्रव्यं समर्पयामास । तेऽपि निर्बन्धात् पितुः पार्चे तद्विभवलाभहेतुं पच्छन्तस्तेषां हृदि धर्मप्रभावाविर्भावाय जिनपूजामभावतः परितुष्टेन कपर्दियक्षेण प्रसादीकृतां तां सम्पदं निवेदयामास । तेऽपि सम्पन्नसम्पत्त