________________
[१४]
-[ शङ्केश्वर-महातीर्थजराऽऽर्तभूतं स्वबलं विलोक्य यत्स्नात्रपीयूषजलेन सिक्तम् । सज्जीकृतं तत्क्षणमेव सर्व वन्दे सदा शङ्खपुरावतंसम् ॥५॥ पञ्चाशदादौ किल पञ्चयुक्ते एकादशे वर्षशते व्यतीते । निवेशितः सज्जनश्रेष्ठिनाऽयं वन्दे सदा शङ्ख पुरावतंसम् ॥ ६॥ काले कलौ कामगवी प्रणष्टा चिन्तामणिः कल्पतरुश्च नष्टः । धत्ते ह्यसौ तत्पतिहस्तकत्वं धन्दे सदा शङ्खपुरावतंसम् ॥ ७ ॥ प्रभूतरोगेण विनष्टदेह आराध्य यं दुर्जनशल्यदेवः । चकार देहं मदनस्य तुल्यं वन्दे सदा शङ्खपुरावतंसम् ॥ ८॥ राज्यार्थिनां राज्यमुखप्रदाता मुतार्थिनां सन्ततिदायको यः। नेत्रार्थिनां लोचनदोऽसि नित्यं वन्दे सदा शङ्खपुरावतंसम् ॥९॥ इति स्तुतः श्रीमुनिचन्द्रसूरिणा कृपाकरः शङ्खपुरावतार !। प्रबन्धकादौ प्रणतासुभाजां प्रयच्छ नित्यं निजपादसेवाम॥१०॥
[४]
श्रीमेरुतुङ्गाचार्यविरचितः
धनदप्रबन्धः । २३०) पुरा शपुरनगरे श्रीशङ्को नाम नृपतिस्तत्र नामकर्मभ्यां धनदः श्रेष्ठी । स कदाचित् करिकर्णतालतरलां कमलां विमृश्योपायनपाणिपोपान्तमुपेत्य तं परितोष्य च तत्प्रसादीकृतायां भुवि चतुभिनन्दनैः सह समालोच्य सुलग्ने जिनप्रासादमचीकरत्। तत्र प्रतिष्ठितबिम्बानांस्थापनां विधाय, - + सिंधी नअन्यभामा प्रशित ' प्रम-पयिन्तामणि' ५. ૧૨૩ માંથી ઉતાર્યું