SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ૧૬ जिन प्रवचनप्रशंसा સ્તુતિચતુર્વિંશતિકા [ १ श्री ऋषभ शान्ति वस्तनुतान् मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयैरक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । . तत् पूज्यैर्जगतां जिनैः प्रवचनं हृप्यत कुत्राद्यावलीरक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कृतम् ॥ ३ ॥ - शार्दूल ० टीका शान्तिवस्तनुतादिति । 'शान्ति' क्षेमम् । उपशमवतां 'वो' युष्माकम् । 'तनुतात्' प्रथयतु । 'मिथोऽनुगमनात् ' परस्परानुवर्तनाद्धेतोः । ' यन्नैगमाद्यैर्नयैः' यन्नैगम संग्रहादिभिर्नयैः, अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मका नयास्तैर्हेतुभूतैः । ' अक्षोभं ' अचलम् । 'जन हे ' जनो- लोकस्तस्य सम्बोधनम् । 'अतुल' महतीम् । 'छितमदोदीर्णाङ्गजाल' छितमदं - छिन्नदर्प उदीर्ण- उच्छ्रितं अङ्गानामाचाराङ्गादीनां जालं समूहो यत्र तत् । 'कृतं' रचितम् । ' तत् पूज्यैजगतां ' अर्चनीयैर्लोकानाम् । 'जिनैः ' अर्हद्भिः । ' प्रवचनं ' शासनम् । 'हृप्यत्कुवाद्यावली. रक्षोभञ्जन हेतु लाञ्छितं ' दृप्यन्ती -दर्प व्रजन्ती या कुवादिनामावली सैव क्रूरात्मकत्वाद् रक्षोराक्षससङ्ग्रहः तद्भञ्जनैःर्भङ्गकारिभिः हेतुभि: लाञ्छितं चिह्नितम् | 'अद: ' एतद् । 'दीर्णा - ङ्गजालङ्कृतं ' दीर्णाङ्गः-शीर्णमदनैः श्रमणादिभिरलङ्कृतम् । यन्नयैरक्षोभं तत् प्रवचनमदो जिनैः कृतं शान्तिमतुलां वः तनुतादिति योगः ॥ ३ ॥ अवचूरिः तत् जगतां पूज्यैजिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात् कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतोर्नैगमादिभिर्नयैरक्षोभं परवादिभिरजेयं वर्तते । हे जन ! भव्यलोक ! | शान्ति किंभूताम् । अतुलां निरुपमाम् । ( प्रवचनं) मतं किंभूतम् । छितमदं छिन्नदर्पमुदीर्णमुच्छ्रितमङ्गानामाचारादीनां जाल समूहो यत्र तत् । तथा ( दृप्यत्) माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद् रक्षो राक्षसस्तस्य भंजनैर्भङ्गकारिभिर्हेतुभिर्लाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मिथोऽनुगमनादित्यत्र 'गुणादस्त्रियां न चं ( वा )' इति पञ्चमी ॥ ३॥ अन्वयः यद् मिथः अनुगमनात् नैगम-आद्यैः मयैः अ-क्षोभं ( वर्तते ), छित-मद- उदीर्ण-अन-जालं, हृप्यत्- कुवा दिन - आवली - रक्षस् - भअन - हेतु - लाञ्छितं दीर्ण - अङ्गज- अलङ्कृतं (च वर्तते ), तद् जगतां पूज्यैः जिनैः कृतं अदः प्रवचनं हे जन ! वः अतुलां शान्ति तनुतात् । १ — द्वादशाङ्गी स्याद् गणिपिटकाया ' इति श्रीअभिधानचिन्तामणि: ( का० २, २ इदं श्रीसिद्धहेमशब्दानुशासनस्य ( २।२।७७ ) सूत्रम् । श्लो० १५९ ) ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy