SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ २४ श्रीवीरजिनस्तुतयः अथ श्रीवीरनाथाय विज्ञप्तिःनमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे ! धरित्रीकृता-- वन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर ! निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाम्नि क्षमालङ्कृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे हे क्षितामो हिताक्षोभवान् ९३ -अर्णवदण्डका टीका नमदिति । 'नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रपन्दारमालारजोरञ्जिताहे !' नमता अमराणां शिरोरुहेभ्यः-केशेभ्यः सस्ताः सामोदा निर्निद्राणां-विकसिताना मन्दाराणां या माला:सजस्तासां रजसा रञ्जिताहे-पाटलितचरण!। 'धरित्रीकृतावन!' धरिया:-भुवः कृतावनविहितरक्ष! । 'वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः' वरतमा-प्रधानतमा सङ्गमस्य-सङ्गमकनाम्नो वैमानिकस्य सम्बन्धिनी उदारा च तारा च, अथवा वरतमः सङ्गमः-समागमो यस्याः सा वरतमसङ्गमा उदारतारा-अदीनलोचनकनीनिका उदितानङ्गाउद्गतस्मरा या नार्यावली-नारीणां आवली-पङिस्तस्या लापेन-जल्पितेन देहेन ईक्षितेन च अमोहितानि अक्षाणि-इन्द्रियाणि यस्य सः । 'भवान्' त्वम् । 'मम' मे । 'वितरतु' प्रयच्छतु । 'वीर!' हे वीरजिन ! । 'निर्वाणशर्माणि । मोक्षसुखानि । ‘जातावतारः' अवतीर्णः, उत्पन्न इत्यर्थः । 'धराधीशसिद्धार्थधाम्नि ' धराधीशः-क्षितिपतिः यः सिद्धार्थाभिधानस्तस्य धान्नि-गृहे । 'क्षमालङ्कतो' क्षमायाः-भुवोऽलङ्कारभूते । अनवरतं । अजस्रम् । ' असङ्गमोद!' सङ्गमोदाभ्यां रहित ! । यदिवा सङ्गाद् यो मोदः स नास्ति यस्य असौ असङ्गमोदः-स्वतन्त्रसुखस्तस्यामन्त्रणम् । 'अरत ! ' असक्त! । 'अरोदित ! ' रोदितहीन!। 'अनङ्गान!' अङ्गन्नावर्जित ! । 'आर्याव!' आर्यानवति यस्तदामन्त्रणम् । 'लीलापदे । विलासानां स्थाने । 'हे' इत्यामन्त्रणं पदम् । 'क्षिताम !' क्षपितरोग!। 'हित !" हितकारिन् ! । ' अक्षोभवान् ' न क्षोभवान् , न भयान्वितः । हे वीर ! भवान् मम निर्वाणशमर्माणि वितरत्विति सम्बन्धः॥९३॥ १'वरतम! सङ्गमो.' इत्यपि पाठः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy