________________
विनस्तुनयः ]
स्तुतिचतुर्विंशतिका
૨૫૦
प्रभागोने मननारी [ अथवा ( शब्थी ) स्पष्ट भने ( अर्थथी ) विष्ट मेवा हेतुयोना જ્ઞાનને ભજનારા ], તથા વિશાળ તેમજ રક્ષણ કરનારા અને વળી પદેને વિષે ગહન અને महत्त्वशाली [ अथवा अर्थ वडे गंभीर माने महत्त्व-युक्त पहवा ] येव। (बैन ) सिद्धान्त प्रशीने नस, सर्प, व्याघ्र, वह्नि, मुंबर, रोग, अरागृह तेभन संग्राम ( 'माई लय थी मथावेो,”–८३
कालीदेव्याः स्तुति:
विपक्षव्यूहं वो दलयतु गदाक्षावलिधराSसमा नालीकालीविशदचलना नालीकवरम् ।
समध्यासीनाऽम्भोभूतघननिभाऽम्भोधितनया
समानाली काली विशदचलनानालिकबरम् ॥ ८४ ॥ २१ ॥
टीका
,
"
विपक्षेति । ' विपक्षन्पू' शत्रुसन्दोहम् । 'वः' युष्माकम् । 'दस्तु' दिनहु । 'गदाता-वलिधरा ' गदां अक्षावळिं धारयति या सा । 'असमा' असदृशी ।' नाकी कालीविशदचलना ' नालीकाली - पद्मपङ्किः तद्वद् विशदौ - उज्ज्वलौ चलनौ यस्याः सा । ' नालिकवरं प्रधानपद्मम् । 'समध्यासीना ' सम्यग् अधिरोहन्ती । ' अम्भोभृतघननिभा' जलभरितमेघप्रभाश्यामेत्यर्थः । 'अम्भोधितनयासमानाली ' अम्भोधितनया - लक्ष्मीः तस्याः असमाना-अनन्यसमा आली - सखी या सा । 'काली' काली संज्ञिता । ' विशदचलनानालिकवरं ' विशद्भिः–निलीयमानैः अचलैः - स्थिरैर्नानालिभिः - विचित्रमधुकरैः कबरं - कर्बुरं यतु तत् । नालिकवरं समध्यासीना काली विपक्षव्यूहं वो दलयतु इति योगः ॥ ८४ ॥
अवचूरिः
काली देवी वो - युष्माकं विपक्षव्यूहं प्रतीपपटलं वलयतु-पिनष्टु । किंविशिष्टा ? । गदा - आयुधषिशेषः अक्षावलिः - अक्षमाला च ते धरतीति । असमा-रूपैश्वर्यादिना अनन्यसदृकू । नालीकाना- कमलानामाली - श्रेणी तद्वद् विशदौ-निर्मलौ चलनौ- पादौ यस्याः सा । नालिकवरं - प्रधानकमलं समध्यासीनाअधिरोहन्ती अधिरूढा वा । अम्भोभृतः पयःपूर्णो यो घनो-मेघस्तस्य निभा-कृष्णवर्णत्वात् समा । अम्भोधितनयासमाना- लक्ष्मीतुल्या आल्यः- सख्यो यस्याः (सा) । विशन्तो- लीयमाना अचलाःस्थिरा नाना-बहुविधा येऽलयो - भ्रमरास्तैः कबरं - मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ॥ ८४ ॥
૧ સરખાવા ભક્તામર્–સ્તાવનું ૪૩મું પથર