SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २० श्रीमुनिसुव्रतजिनस्तुतयः अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम् जिनमुनिसुव्रतः समवताज्जनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥ ७७ ॥ -नर्कुटकम् ( ७,१०) टीका जिनमुनीति । 'जिनमुनिसुव्रतः' मुनिसुव्रतनामा जिनः । 'समवतात् ' संरक्षतु । 'जनतावनतः जनतया-जनसमूहेन अवनत:-प्रणतः । ' समुदितमानवाः' हृष्टाः पुमांसः। 'धनं । द्रव्यम् । 'अलोभवतो भवतः। लोभेनायुक्तस्य सतः । 'अवनिविकीर्ण ' भूमी राशीकृतम् । 'आदिषत । गृहीतवन्तः । 'यस्य' भगवतः । 'निरस्तमनःसमुदितमानबाधनमल: ' बाधनं-बाधा निरस्ता-अपकीर्णा मनःसमुदिता-हृदि समुद्गताः संहता वा मानश्च बाघनं च मलाश्च येन सः। 'भवतः। युष्मान् । 'भवतः' संसारात् । स जिनमुनिसुव्रतो भवतो भवतः समवतात् यस्य धनं समुदितमानवा आदिषतेति सम्बन्धः॥ ७७॥ अवचूरिः जिनमुनिसुव्रतो भवतो-युष्मान् भवतः-संसारात् समवतात्-संरक्षतु । कथंभूतः? । जनतयाजनसमूहेनावनतः । समुदिताः-सहर्षा ये मानवा-मनुष्या अवनिविर्णि-भूमौ राशीकृतं धनं-कनकादिकं यस्यालोभवतः-अलोभिनो भवतः-सतः । दीक्षा ग्रहीतुकामस्येत्यर्थः। आदिषत-आददत। जिनः कथंभूतः? । निरस्ता-अपकीर्णा मनःसमुदिता-हृदि समुत्पन्ना संहता वा मानो बाधनं-पीडा मल:कर्म च येन ॥ ७७॥ अन्वयः मुदित-मानवाः यस्य अ-लोभवतः भवतः अवनि-विकीर्ण धनं आविषत, सः जनताअवनतः, निरस्त-मनस-समुदित-मान-बाधन-मलः जिन-मुनिसुव्रतः भवतः भवतः समवतात् । १ ‘स मुदित०' इत्यपि पदच्छेदः समीचीनः । २ 'बृहतिका' इति सौभाग्यसागराः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy