________________
१८ श्रीअरजिनस्तुतयः अथ श्रीअरनाथाय प्रणिपात:
व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं - सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्संनमदमरमानसं सारमनेकपराजितामरम् ॥ ६९ ॥
-द्विपदी
टीका व्यमुपचक्रेति । 'व्यमुचत् । त्यक्तवान् । 'चक्रवर्तिलक्ष्मी ' चक्रवरश्रियम् । ' इह' अत्र भगति । तृणमिव तृणं-चीरणादि तदिव । 'या'।'क्षणेन' सपदि । 'तम्। 'सबमदमरमानसंसारं ' मा(म)र:-परणं सनः क्षीणो मदचा मरश्च मानश्च संसारश्च यस्य तम् । 'अनेकपराजितां ' अनेकपा:-करिणः तैराजिताम् । 'अरं' अरनामानम् । 'दूतकलधौतकान्त ' द्रुतं यत् कलधौतं तद्वत् कान्तम् । 'आनमत' प्रणिपतत । 'आनन्दितभूरिभक्तिमाक्सनमदमरमानसं ' आनन्दितं-आह्लादितं भूरिभक्तिभाजा-अभूतभावदुषां सममता अमराणां मानसं-मनो येन तम् । 'सारं ' श्रेष्ठम् । अनेकपराजितामरं ' अनेके पराजिताः दिग्विजयादिपक्रये अमरा येन तम् । अथवा चक्रवर्तिलक्ष्मीविशेषणम् । अनेक परैः-शत्रुभिर्न जिता अवेकपराजिताम् । 'अरं' शीघ्रम् । यश्चक्रवर्तिलक्ष्मी तणमिव व्यमुचत् तं अरं आनमवेति सम्बन्धः॥६९॥
अवचरिः यचक्रवर्तिलक्ष्मी क्षणेन-वेगेन तृणवदत्याक्षीत् तं अरं-अरनामानं जिनं हे जमाः ! आनमत । किंभूतम् ।। समा:-क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मी किंभूताम् ।। अनेकपा-गजास्त राजितां-शोभिताम्। जिनं किंभूतम् ? । द्रुतं-विलीनं यत् सुवर्ण तद्वत् कान्तं-कमनीयम्। आनन्दित भूरि. भक्तिभाजां संनमता-प्रणामकारकाणाममराणां मानसं-चित्तं येन । तथा सारं-श्रष्ठम् । दिग्विजयादिप्रक्रमेऽनेके-बहवः पराजिता-अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मी कथंभूताम् ! । अनेकैः परैरजिताम् । अरं-शीघ्रम् ॥६९॥
अन्वयः यः अनेकप-राजिता (अथवा अनेक-पर-अजितां) चक्रवर्तिन-लक्ष्मी इह वर्ण इस क्षणेन व्यमुचत्, तं सत्र-मद-मर-मान-संसारं, द्रुत-कलधौत-कान्तं, आनन्दित-भूरि-भक्ति-भाकसंनमत-अमर-मानसं, सारं अमेक-पराजित-अमरं अरं (अरं) आनमत ।