________________
२०४
श्रीपुरुषदत्तायै प्रार्थना -
સ્તુતિચતુર્વિશતિકા
प्रचलदचिररोचिश्चारुगात्रे ! समुद्यत् - सदसिफलकरामेऽभीमहासेऽरिभीते ! | सपदि पुरुषदत्ते ! ते भवन्तु प्रसादाः
सदसि फलकरा मेऽभीमहासेरिभीते ॥ ६८ ॥ १७ ॥ — मालिनी
[ १७ श्री न्धु
टीका
प्रचलदिति । ' प्रचलदचिररोचिश्चारुगात्रे !' प्रचलन्ती - स्फुरन्ती या अचिररोचि:तडित् तद्वत् चारुगात्रे - रुचिराङ्गि || 'समुद्यत्सदसिफलकरामे !" समुद्यन्ती - प्रोल्लसन्ती ये सतीशोभने असिफलके - खङ्गचर्मणी ताभ्यां रामे - रमणीये ! | 'अभीमहासे !' सौम्यहसने ! | 'अरिभीते !' अरिभ्यो भीः अरिभीः तस्या ईते - ईतिभूते । । ' सपदि ' तत्क्षणम् । ' पुरुषदचे !" पुरुषदत्तादेवि ! | 'वे' त्वत्सम्बन्धिनः । ' भवन्तु ' सम्पद्यन्ताम् । ' प्रसादा: ' अनुग्रहाः । ' सदसि सभायाम् । 'फलकरा: ' कार्यसिद्धिकारिण: । 'मे' मम । 'अभीमहासेरिभीते !” अभी: - अविद्यमानभया या महासेरिभी महामहिषी तस्यां इते गते ! । हे पुरुषदत्ते ! सपदि ते प्रसादाः सदसि फलकरा मे भवन्तु इति योगः ॥ ६८ ॥
अवचूरिः
हे पुरुषदत्ते ! ते तव प्रसादाः सदसि सभायां फलकराः - कार्यसिद्धिकारिणो भवन्तु मे - मम । प्रचलन्ती - स्फुरन्ती या विद्युत् तद्वत् चारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसद्भयामसिफलकाभ्यां खड्गखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभीमः - अरौद्रो हासो - हसनं यस्याः । अरिभ्यो मी:- भयं तस्या ईतिभूते ! । अभीः-निर्भया या महासेरिभी - प्रौढमहिषी तामिता-गता तस्याः संबोधनम् ॥ ६८ ॥
!
प्रचलत् - अचिर- रोचिस - चारु - गात्रे अरि-भी-इते ! अ-भी- महत्- सेरिभी-इते ! भवन्तु ।
प्रचलत् ( धा० चल् ) =स्कुरायभान. चिर=सांगा सभयनी.
रोचिस्=25श.
अन्वयः
समुद्यत् - सत् - असि - फलक-रामे ! अ-भीम-हासे ! पुरुषदत्ते ! ते प्रसादाः सदसि सपदि मे फल - करा:
શબ્દાર્થ
अचिररोचिः=सौहाभिनी, वीजी.. चारु=भनोहर. गात्र = हेड.