________________
१७ श्रीकुन्थुजिनस्तुतयः अथ श्रीकुन्थुनाथाय वन्दनम्
भवतु मम नमः श्रीकुन्थुनाथाय तस्मै
अमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहद् यः ॥ ६५ ॥
-मालिनी (८,७)
टीका
भवत्विति । भवतु' अस्तु । ' मम नमः' मत्सम्बन्धी नमस्कारः । श्रीकुन्थुनाथाय' श्रीकुन्थुनाम्ने नाथाय । 'तस्मै '। 'अमितशमितमोहायामितापाय' अमित:-अपरिगतः शमित:शमं नीतो मोहायामितापः मोहनीयदीर्घदवथुर्येन तस्मै । 'हृयः' हृदयहारी। 'सकलभरतभर्ता' समस्तभरतवर्षाधिपः, चक्रवर्तीत्यर्थः । 'अभूत् । संवृत्तः। 'जिनोऽपि ' जिनश्च । अपिशब्दः समुच्च पार्थः। 'अक्षपाशायमितशमितमोहाय' अक्षपाशैः-इन्द्रियरज्जुभिः अयमिता-अबद्धा ये शमिनः-मुनयास्तेषां तमोहाय-अज्ञानघातिने । 'अमितापायहृद् । अमितान् अपायान् हरति यः सः । तस्मै श्रीकन्थुनाथाय मम नमो भवतु यः सकलभरतभा जिनोऽपि अभूदिति सम्बन्धः ॥६५॥
अवचूरिः तस्मै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु । अमितः शमितो मोहस्यायामितापो-दीर्घदवथुर्येन तस्मै। यः स्वामी हृद्यो-हृदयहारी। संपूर्णभरतक्षेत्राधिपः-चक्रवर्ती। जिनोऽप्यभूत् । किंभूतः ? । अमितानपायान हरतीति तस्मै । किंभूताय ? । अक्षपाशा-इन्द्रियरज्जवस्तैरयमिता-अबद्धा ये शमिनो-मुनयस्तेषां समाहाय-अज्ञानघातिने ॥६५॥
अन्वयः यः द्यः सकल-भरत-भर्ता अमित-अपाय-हत् जिनः अपि अभूत, तस्मै अ-मित-शमितमोह-आयामि-तापाय, अक्ष-पाश-अ-यमित-शमिन्-तमसू-हाय श्री-कुन्थुनाथाय मम नमः भवतु।
૧ આ વૃત્તના લક્ષણ સારૂ જુઓ ૨૫ મા લેકનું સ્પષ્ટીકરણ.