SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ૧૯૪ श्रीब्रह्मशान्तियक्षस्य स्तुति: સ્તુતિચતુર્વિંશતિકા [ १६ श्री शान्ति दण्ड छत्र कमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ १६ ॥ - शार्दूल० टीका , दण्डेति । ' दण्डच्छत्र कमण्डलूनि ' दण्डः - आषाढो व्रतिदण्डः छत्रं- आतपत्रं कमण्डलुःकुण्डिका (तानि) । ' कलयन् ' उद्वहन् । 'सः' । ' ब्रह्मशान्तिः ' ब्रह्मशान्तिनामा ब्रह्मराक्षसः । ' क्रियात् ' विधेयात् । ' सन्ति ' शोभनानि ।' अज्यानि ' ज्यानिरहितम् । 'शमी' प्रशमवान् । ' क्षणेन ' सपदि । ' शं ' सुखम् । ' इन: ' प्रभुः । 'मुक्ताक्षमाली ' मौक्तिकाक्षमालावान् । 'हितं ' परिणतिसुखम् । 'तप्ताष्टापद पिण्डपिङ्गलरुचिः ' तप्तो योऽष्टापद पिण्डः - कनकगोल: तद्वत् पिङ्गलरुचिः - कपिलच्छविः । 'य:' । 'अधारयत्' धृतवान् । 'मूढतां' अज्ञताम् । 'संत्यज्य ' त्यक्त्वा । ' अनिशं ' अनवरतम् । 'ईक्षणेन' आलोकनेन । 'शमिनः ' मुनेः कस्यापि । 'मुक्ताक्षमाली' मुक्ता - त्यक्ता अक्षमायाः - अक्षान्तेः आली - परम्परा येन सः । ' ईहितं चेष्टितम् । सन्ति दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्माशान्तिरज्यानि शं क्षणेन क्रियात् यः शमिनः अनिशं ईक्षणेन मूढतां संत्यज्य हितं अधारयदिति सम्बन्धः ॥ ६४ ॥ " अवचूरिः स ब्रह्मशन्तिनामा यक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छत्रकमण्डलूनि कलयन - उद्वहन् । किंभूतानि । सन्ति - शोभनानि । अज्यानि - अहीनानि । शमी - प्रशमवान् । क्षणेन वेगेन । मुक्ताक्षमाला अस्यास्तीति । तप्तस्वर्णपिण्डपीतरुचिः । यो यक्षः कस्यापि शमिनो - मुनेरनिशं निरन्तरमीक्षणेन - विलोकनेनाज्ञतां - मूढतां संत्यज्य हितं परिणतिसुखमधारयत् । हितं किंभूतम् । मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली - श्रेणिस्तस्या ईहितं चेष्टितम् ॥ ६४ ॥ अन्वयः यः शमिनः अनिशं ईक्षणेन मूढतां संत्यज्य मुक्त-अक्षमा आली-ईहितं हितं अधारयत्, स सन्ति अज्यानि दण्ड - छत्र - कमण्डलूनि कलयन, शमी, इनः, मुक्त - अक्ष- माली, तप्तअष्टापद - पिण्ड - पिङ्गल- रुचिः ब्रह्मशान्तिः क्षणेन ( अ - ज्यानि ) शं क्रियात् ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy