SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १४ श्रीअनन्तजिनस्तुतयः अथ श्रीअनन्तनाथस्य स्तुतिः सकलधौतसहासनमेरव स्तव दिशन्त्वभिषेकजलप्लवाः। मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनमेरवः ॥ ५३ ॥ -द्रुतविलम्बितम् टीका सकलेति । ' सकलधौतसहासनमेरवः' सकलाः-समस्ताः धौता:-क्षालिताः सहासा:सविकासाः नमेरवो-वृक्षविशेषाः यैस्ते । 'तव । भवतः । 'दिशन्तु । ददतु । ' अभिषेकजलप्लवाः स्नानसलिलौघाः । 'मतं ' अभिप्रेतम् । 'अनन्तजितः' अनन्तजिन्नाम्नः । 'स्नपितोल्लसत्सकलधौतसहासनमेरवः' सहासनेन स्नात्रपीठेन-असनैर्वा-वृक्षविशेषैर्वतेत इति सहासनः, स्नपितः-प्लावितः उल्लसन्-शोभमानः सकलधौतः-सहेमा सहासनो मेरुयैस्ते, अथवा उल्लसत् सकलधौत-सहेम (सह-) आरोहक्षम आसनं यस्मिन् स तथा स चासौ मेरुश्च स्नपित उल्लसन् सकलधौतसहासनो मेरुयैस्ते । अनन्तजितोऽभिषेकजलप्लवाः तव मतं दिशन्तु इति सम्बन्धः॥५३॥ अवचूरिः सकलाः-समस्ता धौता:-क्षालिताः सहासाः-सविकासा नमेरवो-वृक्षविशेषा यैस्ते । मतं-अभिप्रेतम् । हे अनन्तजिन!। चतुर्दशस्य तीर्थकृतोद्वे नाम्नी-अनन्तः अनन्तजिञ्च । सहासनेन-स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते ततः स्वपितः-स्नानं कारितः उल्लसन्-शोभमानः सकलधौतः-सहेमा सहासनो मेरुयैस्ते । यद्वा सकलधौत-ससुवर्ण सह-समर्थ दृढमासनं यस्मिन् । ततः सपित उल्लसन् सकलचौतसहासनमेरुयैस्ते । हे अनन्तजित् ! तव स्नानजलप्रवाहा मतं-हितं विशन्त्विति संबन्धः ॥ ५३॥ अन्वयः अनन्तजितः सकल-धौत-सहास-नमेरवः, स्लपित-उल्लसत्-सकलधौत-सह-आसन (अथवा असन)-मेरवः अभिषेक-जल-प्लवाः तव मतं दिशन्तु ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy