________________
૧૭૦
સ્તુતિચતુર્વિંશતિકા
[ १३ श्रीविभस
અર્થાત્——ઉપશમરૂપી લક્ષ્મી વડે રમણીય, વિશાળ કાન્તિવાળા, પૂર્ણિમાના ચન્દ્રસમાન વદનવાળા, ઉત્તમ ગુણેાથી યુક્ત, વિદ્યમાન છે નમ્ર દેવલેાકના નાથ જેને વિષે એવા, કંદર્પરૂપી ઉન્મત્ત કુંજરના નાશ કરવામાં સહુસમાન તેમજ કલ્યાણરૂપી સરોવરો પ્રતિ સૂર્યસમાન सेवा श्री/िनेश्वरनी ने प्रयत्नशील (भनुष्य ) स्तुति उरे छे, ते बुद्धिशाणी (भानव) अत्यन्त મનાહર લક્ષ્મી ભાગવે છે.—૧૦
जिनमवचनप्रणामः
-
सदा यतिगुरोरहो ! नमत मानवैरञ्चितं मतं वरदमेनसा रहितमायताभावतः ।
सदायति गुरोरहो न मतमानवैरं चितं
मतं वरदमेन सारहितमायता भावतः ॥ ५१ ॥ - पृथ्वी
टीका
सदेति । 'सदा' सर्वकालम् । 'यतिगुरो:' गुरुः- तत्त्वोपदेष्टा यतीनां गुरुर्जिन (स्त) स्य । 'अहो' इत्यामन्त्रणे । 'नमत ' प्रणमत । ' मानवैः ' नृभिः । 'अञ्चितं ' पूजितम् । ' मतं ' शासनम् । ' वरदं ' अभीष्टप्रदम् । 'एनसा पापेन । ' रहितं ' त्यक्तम् । " आयताभावतः , आयता- विस्तीर्णा भा-छाया विद्यते यस्य तस्य । ' सदायति' सती - शोभना आयतिः - प्रभुता यस्य तत् । ‘गुरोः' महतः । ‘रहः' रहस्यभूतम् । 'न' इति प्रतिषेधे उत्तरेण सम्बध्यते । 'मतमानवैरं ' मानश्च वैरं च मानवैरे, ते मते यस्य तंत् यन्न भवति । ' चितं ' सम्बद्धम् । 'मतं ' सर्वस्याभिप्रेतम् । ' वरदमेन ' प्रधानप्रशमेन । 'सारहितं ' सारं च तत् हितं च । आगच्छता । 'भावत: ' अनुरागात् । यतिगुरोर्मतमायता वरदमेन चितं सदा भावतो नमतेति सम्बन्धः ॥ ५१ ॥
"
आयता '
"
अवचूरिः
अहो लोकाः ! यतिगुरोः - सर्वज्ञस्य भावतो - भक्त्या मतं शासनं नमत | सदा-सर्वकालम् । कथंभूतम् ? | मानवैः - मानुषैरञ्चितं पूजितम् । वरं - अभीष्टार्थं ददाति वरदम् । एनसा- पापेन रहितं त्यक्तम् । यति गुरोः किंभूतस्य ? | आयताभावतः आयता - विपुला भा अस्यास्तीति मतुपू । मतं किंभूतम् ? | सायति सती - शोभना आयतिः - आगामिकालः प्रभूता वा यस्य तत् । गुरोरर्हतो रहो- रहस्यभूतम् । न मते- अभीष्टे मानवैरे यस्य । चितं व्याप्तम् । केन ? । वरदमेन प्रधानोपशमेन । किंभूतेन ? । आयताआमच्छता । मतं कथंभूतम् । मतं सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यद्वा सारं हितं यस्मिन् ॥५१॥