SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ __१३ श्रीविमलजिनस्तुतयः अथ श्रीविमलनाथाय प्रणा अपपदमलं घनं शमितमानमामो हितं नसामरसभारं विमलमालयाऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं विमलमालयामोदितम् ॥ १९ ॥ -पृथ्वी ( ८, ९) टीका अपापदेति । 'अपापदं । न पापं ददातीति यत् तत् । अलं अत्ययम् । अथवा पापहेतुत्वात् पापं, न पापं अपापं, न विद्यते वा यत् तत् अपापम् , दमं लातीति दमलं, अपापं च वत् दमलं चेति अपापदमलम् । 'घनं ' अच्छिद्रं-अशेषमलक्षयोत्थमित्यर्थः, तत् तथाभूतम् । 'शं' सुखम् । 'इ' प्राप्तम् । 'आनमामः' प्रणमामः। ‘हितं ' हितकारणम् । 'नतामरसभासुरं । नता अमरसभा सुराश्च यस्य तम्, अथवा नता अमराः सभा:-सदीप्तिका असुराश्च यस्य तम् । 'विपलमालया' विगतमला या माला-सक तया। 'आमोदितं' सुरभीकृतम् । 'अपापदं' अपगता आपदो यस्य तम् । 'अलकनं न विद्यते लवनं-अधःकरणं कुतोऽपि यस्य तम् । 'शमितमानं ' शमितः-शमं नीतो मानो येन तम् । 'आमोहितं ' आ-समन्तात् मोहं नीतम् ।'न' इति प्रतिषेधपदं अस्य सम्बध्यते । 'तामरसभासुरं' तामरसवद् भासुरं-उज्ज्वकम् । 'विमलं विमलाभिधानं जिनम् । 'आलयामोदितं । आलया-आषासास्तैरमोदितं-न मोद नीतम् । विमई मानमाम इत्यन्वयः॥४९॥ अवचूरिः विमलं जिनं वयमानमामः । पापं ददातीति पापदः, न पापदमपापदम्, पुण्यप्रदमित्यर्थः । आर्य-अत्यर्थम् । यद्वा अपापो यो दमः-उपशमस्तं लातीति अपापदमलम् । धनं-निश्छिद्रं अशेषमलक्षयोत्थं शं-सुखमितं-प्राप्तम् । हितं प्राणिगणस्य । नता-नम्रीभूता अमरसभा-देवपर्षदसुराश्च यस्य । बिमला या माला-पुष्पन्न तयामोदितं-सुरभीकृतम् । अपमता आपढ़ो यस्मात् तम् । अलबुन्नं-केनाप्यपराभूतम् । शमितो मानो येन तम् । आमोहितं न, मोहेन समन्तान वशीकृतम् । तामरसं-कमलं तद्वद् भासुरं-दीप्यमानम् । आलये-गृहविषये अमोदितं-अष्टम् ॥ १९॥
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy