________________
११ श्रीश्रेयांसजिनस्तुतयः अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम्
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधु: __कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ ४१ ॥
-हरिणी ( १, ४, ७)
टीका
- कुसुयधनुषेति । 'कुसुमधनुषा । स्मरेण ।' यस्मादन्यं ' यतोऽपरम् । 'न मोहवशं । न रागपरवशम् । 'व्यधुः ' विहितवन्तः । 'क' इति प्रश्ने। ' अलसदृशा ' स्तिमितलोचनानाम् । स्त्रीणां नृणां वा । अनेन गायकानां समदचेष्टामाचष्टे । 'गीतारावाः' गान्धर्वध्वनयः। 'बलात् । प्रसभम् । 'अयि ' इति सम्बोधने । 'तापितं' सन्दीपितम् । 'प्रणमततराम् । अतिशयेन नमत । 'द्राक्' सपदि । 'श्रेयांस' श्रेयांसनामानम् । 'न च' नैव । 'आहत' क्षिप्तवती। 'यन्मनः यस्य मानसं । 'कमळसदृशाङ्गी' शतपत्रसमगात्री सौकुमार्येण । 'तारा' कान्तिमती । 'वा 'शब्दः समुच्चयार्थः । 'अबला' नितम्बिनी । 'दयितापि ' प्रेयस्यपि । 'तम् । कुसुमधनुषा बलात् तापितं यस्मादन्यमयि कं न मोहवशं अळसदृशाङ्गी तारा वा व्यधुः? अपि तु सर्वमेव विहितवन्तः । अबला च यन्मनः कमलसदृशाङ्गी तारा वा दयिताऽपि नाहत तं श्रेयासं प्रणमततरां इति योजनाक्रमः । ननु विरुद्धमेतत् , यदि दयिता कथं मनो नाहृत ! नैवं, संयमप्रतिपत्तिकालमङ्गीकृत्येदमुच्यते, न सर्वदा ॥४१॥
अवचूरिः अलसदृशा-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-मीतध्वनयो यस्माजिनात् कमन्य जनं मोहवशवर्तिनं न व्यधुः ? । अपि तु सर्वमप्यकार्षः। किंविशिष्टम् ? । बलात्-प्रसभम् । अयि संबोधने । तापितं-पीडितम् । केन ! । कुसुमधनुषा-कामेन । हे जनाः! तं श्रेयांसं प्रणमततमाम् । द्राक-शीघ्रम् । अबला-स्त्री दयिताऽपि-कान्ताऽपि यन्मनो-यन्मानसं च नाहृत-नाक्षिप्तवती। किंभूता?। कमलसदृशं कोमलत्वावङ्गं यस्याः सा कमलसदृशाङ्गी । तारा-मनोहरा । वा समुच्चये ॥४१॥
१'प्रगमतमा' इत्यपि पाठः।