________________
૧૦૯
Correतुतयः]
स्तुतिचतुर्विंशतिका
८ श्री चन्द्रप्रभजिनस्तुतयः अथ चन्द्रप्रभप्रभवे प्रणाम:
तुभ्यं चन्द्रप्रभ! जिन! नमस्तामसोज्जृम्भितानां
हाने कान्तानलसम! दयावन् ! दितायासमान! । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान! ॥ २९॥
-मन्दाक्रान्ता (४, ६, ७)
टीका तुभ्यमिति । तुभ्यं चन्द्रप्रभजिन ! नमः । चन्द्रप्रभनामन् जिन ! नमोऽस्तु । ' तामसो. ज्जृम्भिताना' तामसानि-तमःसम्बन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् । 'हाने ' अपगमे । 'कान्तानलसम! " स्निग्धज्वलनसदृश! । 'दयावन् !' कृपयान्वित ! । 'दितायासमान!' खण्डितखेदगर्व! । 'विद्वत्पश्या' पण्डितश्रेण्या। 'प्रकटितपृथुस्पष्टदृष्टान्तहेतुहानेकान्त !' पृथवः-वितताः स्पष्टा:-स्फुटाः दृष्टान्ताः-निदर्शनानि हेतवः-कारणानि ऊहा:वितकोः अनेकान्तः-स्याद्वादः, पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स चासावनेकान्तश्च प्रकटितः पृथुस्पष्टदृष्टान्तहेतूहानेकान्तो येन तस्यामन्त्रणम् । 'अनलसमदया' अनलसो मदो यस्यास्तया । वन्दिताय' स्तुताय । 'असमान!' अनन्यसदृश ! । हे चन्द्रप्रभ जिन ! विद्धः त्पड्या वन्दिताय तुभ्यं नम इति योगः ॥२९॥
___ अवचूरिः हे चन्द्रप्रभ जिन, हे दयावन् (कृपावन् )! तुभ्यं नमोऽस्तु । तमासंबन्धिविस्फूर्जिताना हानेत्यागे मनोहरवह्निसमान! । दिती-छिनावायासमानौ येन । तुभ्यं किंभूताय ? । विद्वत्पश्या वन्दिताय । प्रकटिताः पृथवो-वितताः स्पष्टा दृष्टान्ता-निदर्शनानि हेतवः-करणानि ऊहो-वितर्कः अनेकान्तःस्याद्वादो येन तत्संबोधनम् । विद्वत्पङ्कया किंभूतया ? । न विद्यते अलसमदौ-तन्द्राऽहंकारौ यस्यास्तया। हे असमान निरुपमान ! ॥ २९ ॥
अन्वयः (हे) चन्द्रप्रभ! जिन ! तामस-उज्जृम्भितानां हाने कान्त-अनल-सम ! दयावन् ! दितआयास-मान! प्रकटित-पृथु-स्पष्ट-दृष्टान्त-हेतु-ऊह-अनेकान्त ! अ-समान! अनलस-मदया विद्वस्-पत्न्या वन्दिताय तुभ्यं नमः ।