SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ६ श्रीपद्मप्रभजिनस्तुतयः अथ श्रीपद्मप्रभाय विनतिः पादद्वयी दलितपद्ममृदुः प्रमोदम् उन्मुद्रतामरसदामलतान्तपात्री। पाद्मप्रभी प्रविदधातु सतां वितीर्णमुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१ ॥ -वसन्ततिलका (८, ६) टीका पादद्वयीति । 'पादद्वयी। चरणद्वितयी । दलितपद्ममृदुः। विकसिताब्जकोमला । 'प्रमोदं ' आनन्दम् । 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि तामरसदामानि-कमलमाला लतान्तानि-कुसुमानि तेषां पात्री-भाजनं, अथवा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्री-समीपभाजनम् । कदाचिद् उन्मुद्राणि-अपर्यन्तानि तामरसानि सुरनिर्मितानि रेखात्मकानि वा दयत इति उन्मुद्रतामरसदा, यदिवा उन्मुत्-उद्गतहर्ष यद् रतं तत्र आम:-प्रत्यग्रो यो रसोभिलाषस्तं द्यतीति उन्मुद्रतामरसदा। 'आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् । पाद्मप्रभी' पद्मप्रभसंबन्धिनी। 'प्रविदधातु ' करोतु । ' सतां साधूनाम् । 'वितीर्णमुत् ' दत्तप्रीतिः। 'मुद्रतामरसदा' मुदा रता अमरसदा-सुरसभा यस्याः सा । 'मलतान्तपात्री' मलेन-कर्मणा तान्तान्-ग्लानान् पात्री-रक्षणशीला । पायप्रभी पादद्वयी प्रमोदं प्रविदधातु इति संबन्धः ॥२१॥ अवचूरिः पद्मप्रभसंबन्धिनी पाद्वयी प्रमोद प्रविदधातु । किंभूता। दलित विकसितं यदब्जं तद्वत् कोमला । उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसुमानि तेषां पात्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्री समीपभाजनम् । सतां वितीर्णमुद् प्रीतिः । मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा। मलेन कर्मणा तान्तान् ग्लानान् पातीति मलतान्तपात्री ॥२१॥ अन्वयः दलित-पद्म-मृदुः, उन्मुद्र-तामरस-दामन्-लतान्त-पात्री [अथवा उन्मुद्र-तामरस-दामने लता-अन्त-पात्री, अथवा उन्मुद्र-तामरस-दा (अथवा उद् मुद्-त-आम-रस-दा)-आम-लता अन्त-पात्री ] सतां वितीर्ण-मुद्, मुद्-रत-अमर-सदा, मल-तान्त-पात्री [अथवा मलताअन्त-पात्री] पाझप्रभी पाद-द्वयी प्रमोद प्रविदधातु ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy