SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ४ श्रीअभिनन्दनजिनस्तुतयः अथ अभिनन्दनस्य प्रार्थना त्वमशुभान्यभिनन्दन ! नन्दिता ऽसुरवधूनयनः परमोदरः। स्मरकरीन्द्रविदारणकेसरिन् ! सुरव ! धूनय नः परमोऽदरः ॥ १३ ॥ द्रुतविलम्बितम् टीका त्वमिति । 'त्वं' अशुभानि' पापानि 'अभिनन्दन!'। 'नन्दितासुरवधूनयनः' नन्दितानि असुरवधूनां नयनानि येन सः। अथवा ' नन्दितासुः आनन्दितमाणः, प्राणिनामिति अर्थाद् गम्यते, अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देन असुमन्त एवोच्यन्ते 'अवधू-नयन न वधृषु नयने यस्य सः।' परमोदरः परेभ्यो मोदरो-हर्षदः। स्मरकरीन्द्रविदारणकेसरिन् !' स्मर एव करीन्द्रस्तस्य विदारणे केसरिन्-सिंह !। 'सुरव !! चारुध्वने ! । 'धूनय' कम्पय । 'नः । अस्माकम् । 'परमोऽदरः' परमः-उत्कृष्टः अदर:-निर्भयः । अथवा परमं उदरं यस्य सः यतएव केसरी अतः सुरवः परमोदरश्चेति विशेषितः । हे अभिनन्दन ! जिन ! त्वं अशुभानि धूनय इति योगः ॥ १३॥ अवचूरिः - हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूतः। नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधूषु नयने यस्य स तथा । यद्वा नन्दितानि असुरवधूनयनानि येन सः। तथा परेभ्यो मोदं राति ददाति यः। यद्वा परमुदरं यस्य । हे सुरव, जगदाह्लादित्वात् वर्यदेशनाध्वने !। परमः प्रधानः। अदरो निर्भयश्च ॥१३॥ अन्वयः (ह) स्मर-करिन-इन्द्र-विदारण-केसरिन् ! सु-रव ! अभिनन्दन ! नन्दित-असुः, अ-वधूनयनः (अथवा नन्दित-असुर-वधू-नयनः), परम-उदरः (अथवा पर-मोद-र), परमः, अ-दरः त्वं नः अशुभानि धूनय ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy