________________
152... नाट्य मुद्राओं का एक मनोवैज्ञानिक अनुशीलन संदर्भ -सूची 1. पताकस्त्रिपताकश्च, तथावैकर्तरीमुखः । अर्धचन्द्रो परालश्च, शुकतुण्डस्तथैव च ॥
मुष्टिश्च शिखराख्यश्च, कपित्थः खटकामुखः ।
सूच्यास्यः पद्मकोषश्च, तथा वै सर्पशीर्षक: ।। मृगशीर्षः परो ज्ञेयो, हस्ताभिनययोक्तृभिः । लाङ्गलोत्पलपद्मश्च, चतुरो भ्रामरस्तथा ।
हंसास्यो हंसपक्षश्च, संदंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडश्चतुर्विशदिमे
कराः। असंयुताः संयुताश्च, गदतो मे निबोधत ।।
नाट्य शास्त्र, 9वाँ अध्याय 2. अंजलिश्च कपोतश्च, कर्कट: स्वस्तिकस्तथा। खटका वर्धमानश्च, ह्युत्सङ्गो निषधस्तथा ।
दोल: पुष्पपुटश्चैव, तथा मकर एव च। गजदन्तोऽवहित्थश्च, वर्धमानस्तथैव च । एते तु संयुता हस्ता, मया प्रोक्तास्त्रयोदश ।
नाट्य शास्त्र, 9वाँ अध्याय 3. नृत्तहस्तानतश्चोर्ध्वं, गदतो मे निबोधत । चतुरस्रो तथोवृत्तौ, तथा तलमुखौ स्मृतौ ॥
स्वस्तिकौ विप्रकीर्णी, चाप्यरालखटकामुखौ । अविद्धवक्रौ सूच्यास्यौ, रेचितावर्धरचितौ ।
उत्तानावंचितौ चेव, पल्लवौ च तथाकरौ।। नितम्बावपि विज्ञेयौ, केशबन्धौ तथैव च। लताख्यौ च तथा प्रोक्तौ, करिहस्तौ तथैव च ॥
पक्षवञ्चितकौ चैव, पक्षप्रद्योतकौ तथा। ज्ञेयौ गरूड़पक्षौ च, हंसपक्षौ तथैव च ।
ऊर्ध्वमण्डलिनौ चैव, उर: पाश्वोर्ध्वमण्डले ॥ मुष्टिकः स्वस्तिकश्चापि, नलिनीपद्मकोषको । अलपल्लवोल्वणौ च, ललितौ वलितौ तथा ॥
नाट्य शास्त्र, 9 वाँ अध्याय