________________
स च चतुःषु स्थानेषु विपाकमागच्छति, तद्यथा नैरयिकेषु तिर्यक्षु मनुजेषु देवेषु। आत्मकृता जीवा न परकृताः कृत्वा कृत्वा वेदयन्ति, तद्यथा प्राणातिपातविरमणेण यावत् परिग्रहविरमणेण। एष खलु संबुद्धः संवृतकर्मान्तश्चातुर्यामिको निर्ग्रन्थोऽष्टविधं कर्मग्रन्थिं न प्रकरोति, स च प्रागुक्तेषु चतुःषु स्थानेषु न विपाकमागच्छति। आदिपाठस्तु मिथ्यादर्शनविरमणेनेतिप्रभृत्यनुबध्यते यथा किं तु जीवाः शातनां नाशनां वेदनां वेदयन्ति। यो यदर्थं यद्वस्तुनो बिभेति तत् न समुच्छेत्स्यते अर्थात् स एव समुत्थास्यति। निष्ठितकरणीयः सन् मडाइ त्ति मृतादी प्राशुकभोजी, उपलक्षणत्वादेषणीयादीति व्याख्याप्रज्ञप्तिवृत्त्यनुसारेण व्याख्येयम्। स्पर्युकेति स्थाने तु प्राशुकेत्ययुक्तं प्रवदन्ति वृत्तिकारानुयायिनः। मृतादी निर्ग्रन्थो निरुद्धप्रपञ्चो व्यवच्छिन्नसंसारो व्यवच्छिन्नसंसारवेदनीयः प्रहीणसंसारः प्रहीणसंसारवेदनीयो संसारमार्गान् न पुनरप्यत्रत्वं समागच्छति। पावीयमध्ययनम्। द्वितीयपाठस्तु समापद्यते यथा लोको न कदाचिन्नासीन्न कदाचिन्न भवति न कदाचिन्न भविष्यति, अभूच्च भवति च भविष्यति च, ध्रुवो नित्यः शाश्वतोऽक्षयोऽव्ययोऽवस्थितो नित्यो भवति, यथा नाम पञ्चास्तिकाया न कदाचिन्नासन्नित्यादि एवमेव लोकोऽपि। समाप्तं पाठान्तरम्।
32 दिव्यां भो कृषि कृषेन्नार्पयेत्।—कुतः क्षेत्रं कुतो बीजं कुतस्तव युगलाङ्गले? गा अपि तव न पश्यामि, हे आर्य, का नाम तव कृषिरिति प्रश्नाः (1)।। आत्मा क्षेत्रं तपो बीजं संयमो युगलाङ्गले अहिंसा समितिश्च योग्या, एषा धर्मान्तरा धर्मगर्भा कृषिः (2)। एषा कृषिः अलुब्धस्य पुरुषस्य शुभतराऽतिशुभा व्याख्याता, एषा बहुसती अतिसाध्वी परलोकसुखावहा च भवति (3)।। एतां कृषि कृष्ट्वा सर्वसत्त्वदयावहां ब्राह्मणः क्षत्रियो वैश्यः शद्रोऽपि वा सिद्धयति (4)।। पिङ्गाध्ययनं षड्विंशस्य द्वितीयपाठ इव।
33
द्वाभ्यां स्थानाभ्यां बालं जानीयात्, द्वाभ्यां स्थानाभ्यां पण्डितं जानीयात् यथा सम्यक्प्रयोगेन च मिथ्याप्रयोगेन च कर्मणा भाषणेन चेति श्लोकार्धम। दुर्भाषितया भाषया दुःकृतेन च कर्मणा कार्याकार्यविनिश्चये बालमेतं विजानीयात् (1)।। (2) (3)।। सुभाषितया भाषया सुकृतेन च कर्मणा पर्जन्यः कालवर्षीय यशोऽभिगच्छति (4)।। (5) (6)|| साधुभिः संगमंच संस्तवं च धर्मं च कुर्यादिति स्पष्टं, कुतस्तु धर्मस्य विपरीतमधर्म, कुर्यादिति न ज्ञायते (7)।। (8)।। क्षयि 454 इसिभासियाइं सुत्ताई