________________
प्रमाणं वार्ता च देयाद् यो धनमर्जयति, सद्धर्मवाक्यदानं त्वक्षयममृतं च मतं भवति (9)।। पुण्यं तीर्थमुपागम्य प्रेत्य भुञ्ज्याद्धीतं फलम्, सद्धर्मवारिदानेन क्षिप्रं तु. शुध्यति मनः (10)।। (11) (12) (13) (14) (15)।। कल्याणमित्रसंसर्ग कृत्वा संजयो मिथिलाधिपः स्फीतं भुक्त्वा तन्मूलं भोजनं मूलं भवति यथा तथा दिवं गतः (16)।। (17)।। आरुणीयाध्ययनम्।
34 पञ्चसु स्थानेषु पण्डितो बालेन परीषहोपसर्गानुदीर्यमाणान् सम्यक् सहेत क्षमेत तितिक्षाधिवासयेत, तद्यथा बालः खलु पण्डितं परोक्षं परुषं वदेत्, तत् पण्डितो बहु मन्येत यथा दिष्ट्यैष बालो मे परोक्षं परुषं वदति, न प्रत्यक्षम्। मूर्खस्वभावा हि बालाः, न किञ्चिद् बालेभ्यो कर्तृभ्यो न विद्यत इति। तत् पण्डितः सम्यक् सहेतेत्यादि। बालः खलु पण्डितं प्रत्यक्षमेव परुषं वदेत्, तत् पण्डित इत्यादि यावत् प्रत्यक्ष वदति, न दण्डेन वा यष्ट्या वा लेष्टुना वा मुष्ट्या वा बालः कपालेन वाऽभिहन्ति तर्जयति ताडयति परिताडयति परितापयति उद्वापयति व्यापादयति। मूर्ख इत्यादि पूर्ववत्। बालश्च त्ति संयोजने चेदर्थे वा पण्डितं दण्डेनेत्यादि यावद् उद्वापयेत्, तत् पण्डित इत्यादि यावद्द्वापयति, न केनचिच्छस्त्रजातेन किञ्चिच्छरीरजातं शरीरभागमाच्छिनत्ति वा विच्छिनत्ति वा। मूर्ख इत्यादि पूर्ववत्। बालश्च चेद् वा पण्डितं केनचिच्छस्त्रजातेनेत्यादि यावद् विच्छिन्द्यात्, तत् पण्डित इत्यादि यावद् विच्छिनत्ति वा, न जीविताद व्यपरोपयति। मूर्ख इत्यादि पूर्ववत्। बालश्च पण्डितं जीविताद् व्यणपरोपयेत्, तत् पण्डित इत्यादि यावद् व्यपरोपयति, न धर्माद् भ्रंशयति। मूर्ख इत्यादि पूर्ववत्। येन केनचिदुपायेन पण्डित आत्मानं मुञ्चेत् दोषाद् बालेनोदीरितात्। तदपि स दोष एव तस्य पण्डितस्य हितं भवेत् (1)।। अप्रतिज्ञभावादुत्तरं न विद्यते, स्वयं पण्डितो वेषान् अनेकरूपान् भविष्यद्भवान् न प्रकरोति यदि वा वेसे त्ति दोसे त्ति स्थाने लेखनभ्रमात्। अप्रतिज्ञ इह लोके भवति यथार्थो ब्राह्मणः (2)।। दीनेन सामान्येन पुरुषेण किं क्रियते देहकाङ्क्षणात् णण्णत्थ त्ति अन्यत्र, न किञ्चिदित्यर्थः। दीनस्य कालकाङ्क्षणं प्रायोपगमनादिना मृत्युप्रतिक्षणं वा लोकादनन्यत्वं वा आत्मस्वभावस्य हीयते न ज्ञायते (3)।। (4) (5) (6)।। इसिगिर्यध्ययनम्।
35
चतुःषु स्थानेषु खलु भो जीवाः कुप्यन्तो माद्यन्तो गूहन्तो लुभ्यन्तो वज्रं समाददति वज्रं समादाय चतुरन्तसंसारकान्तारे पुनः पुनरात्मानं परिविध्वंसयन्ति, तद् यथा क्रोधेन मानेन मायया लोभेन। तेषां च कषायाणामहं परिघातहेतोर
ऋषिभाषित संस्कृत टीका 455