SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ हन्तारं लभते (4)।। (5)।। भद्रकानि भद्रकानीति मन्यन्ते जनाः, मधुरं मधुरं परुषं परुषमिति मनुते, कटुकं कटुकमिति भणितम् (6)।। कल्याणमिति भणतः कल्याणैतत्प्रतिश्रुत्, पापकमिति पापका (7)।। (8)।। वाय्वध्ययनम्। 31 पाीयाध्ययनस्य पृच्छा इह योज्यन्ते व्याकरणैः। कोऽयं लोकः? जीवाश्चैवाजीवाश्चैवेति लोकः? चतुर्विधो लोको व्याख्यातस्तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतः। कस्य वा लोकः? आत्मभाव आत्मना भवति लोक इति योज्यम्। स्वाम्यमुद्दिश्य जीवानां लोको, निर्वृत्तिं निष्पत्तिमुद्दिश्य जीवानां चाजीवानां च। को वा लोकभावः? अनादिकोऽनिधनः पारिणामिको लोकभावः।। केन वाऽर्थेन लोक इति प्रोच्यते? लोकतीति लोकः। का गतिः? जीवानां च पुद्गलानां च गतिर्द्रव्यतः क्षेत्रतः कालतो भावतः। व्याकरणस्य तु पाठान्तरं यथा जीवश्चैव गमनपरिणताः पद्गलाश्चैव गमनपरिणता इति। कस्य वा गतिः? जीवानां च पुद्गलानां च गतिरित्याख्याता। केचित्तु पठन्ति यथा द्विविधा गतिस्तद्यथा प्रयोगगतिः स्वेच्छया गतिर्विसंसा गतिस्तद्विपरीता जीवानां च पुद्गलानां चेति। को वा गतिभावः? अनादिकोऽनिधनो गतिभावः। पाठान्तरं तु यथा औदयिकपारिणामिको गतिभाव इति। केन वाऽर्थेन गतिरिति प्रोच्यते? गम्यते इति गतिः। अन्ये तु गम्यमाना इति गतिरिति पठन्ति। इमानि चत्वारि पाठान्तराण्यस्याध्ययनस्यान्ते गतिव्याकरणग्रन्थात् प्रभृति सामित्तं ति यावदयं द्वितीयः पाठो दृश्यत इति प्रवेशितानि। उत्तरगामिनामपि सूत्राणां स द्वितीयः पाठ इति वक्ष्यते। ऊर्ध्वगामिनो जीवा, अधोगामिनः पुद्गलाः। कर्मप्रभवा जीवाः, परिणामप्रभवाः पुद्गलाः; कर्मं प्राप्य फलविपाको जीवानां, परिणाम प्राप्य पुद्गलानाम्। द्वितीयः पाठस्तु पापकर्मकृतो जीवानां परिणामः, स एव पुद्गलानामिति। न कदाचिदियं प्रजा मनुष्यादिकाऽव्या बाधसुखमनुपरुद्धसुखमेषेत कशां कशायित्वा हिंसां कृत्वा। द्वितीयपाठस्तु यथा न कदाचित् प्रजा प्राकार्षीद् अदुःखमिति। जीवा द्विविधां वेदनां वेदयन्त्यनुभवन्ति, तद्यथा प्राणातिपातेन यावन्मिथ्यादर्शनेन। विरमणपदं त्विह न युज्यते। अस्येह दृश्यमानत्वाद् वृद्धलेखकदोषेण विस्मृतानि कानिचित् सूत्राणीत्यनुमीयते। पूरितं त्विदं छिद्रं II-पुस्तकेन यथा एवं यावन्मिथ्यादर्शनशल्येन कृत्वा जीवाः शातनां वेदनां वेदयन्ति। प्राणातिपातविरमणेन तु यावन्मिथ्यादर्शनशल्यविरमणेन कृत्वा जीवा अशातनां वेदनां वेदयन्तीति। एतेनैव प्रकारेण द्वितीयपाठेन पूरितं छिद्रं यथा आत्मकृतो जीवा भवन्ति, कृत्वा कृत्वा यद् यद् कृतवन्तस्तत् तद् वेदयन्ति, तद् यथा प्राणातिपातेन यावत् परिग्रहेणेति। स एव द्वितीयः पाठोऽनुबध्यते यथा एष खल्वसम्बुद्धोऽसंवृतकर्मान्तश्चातुर्यामिको निर्ग्रन्थोऽष्टविधं कर्मग्रन्थिं प्रकरोति, ऋषिभाषित संस्कृत टीका 453
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy