________________
यथासंख्यं, पञ्चेन्द्रियसंवृत्ताः षड्जीवनिकायसुष्ठुनिरताः सप्तभयविप्रमुक्ता अष्टमदस्थानहीना नवब्रह्मचर्ययुक्ता दशसमाधिस्थानसंप्रयुक्ता बहु पापं कर्म कलिकलुषं क्षपयित्वेतश्च्युताः सुगतिगामिनो भवन्ति ।
हे भगवन्नम्बट, ते सूत्रमार्गानुसारिणः क्षीणकषाया दान्तेन्द्रियाः शरीरसंधारणार्थं योगसंधानाय नवकोटिपरिशुद्धेत्यादिप्रसिद्धलक्षणं पिण्डं तादृशां भिक्षां शय्यां चोपधिं च गवेषमाणाः साधवः सङ्गतगतहसितभणितैः सुन्दरस्तनजघनैश्च प्रतिरूपा रूपवत्यः स्त्रियो दृष्ट्वा न तेषां मनसाऽपि प्रादुर्भावं गच्छन्ति मैथुनार्था ग्रामधर्माः । एतावदेव ऋषिभाषितमित्यम्बटस्य संबोधितत्वादनुमेयम्, शेषाणामृषिभाषितानां वाग्वृत्तिं त्वनुसृत्य हारिता इत्यादि लघुवाक्यं यौगन्धरायणभाषितमिति ।
कथमेतदिति कथं सा क्षीणकषायता दान्तेन्द्रियतेत्युच्यते । सा भवति विगतरागता सरागस्याप्यपेक्ष्येति केवले स्त्रीविषये न तु सर्वथा हतमोहस्येत्यर्थ इव दृश्यते। तत्र तत्रेतरेतरेषु कुलेषु पिण्डं गवेषमाणा इत्यादि पञ्चदशाध्ययनवत् ( 1 ) ।। स शुद्धपिण्डः कथमिति हस्ति - महावृक्षनिदर्शनं, पाउत्ति पात्रम्, तैलपात्रधर्ममप्रमादगुणवर्णनगर्भं पञ्चचत्वारिंशाध्ययनस्य द्वाविंशे श्लोके सूचितं किम्पाकफलनिदर्शनं मूढत्वप्रकाशकं च । अपरं च यथा नामैकः शाकटिकोऽक्षं प्रक्षेदेष मम न भङ्क्ष्यति भारं च मे वहिष्यतीति चिन्तयन्, एतयोपमया श्रमणो निर्ग्रन्थः षट्सु स्थानेष्वाहारमाहारयन् नातिक्रामति, तद् यया वेदना - वैयापृत्यईर्या-संयम-प्राणवृत्ति-धर्मचिन्तेत्येतेषामर्थाय । अपरं च-यथा नामैको जतुकारकोऽङ्गारेष्वग्निकायं निसृजेदेष मेऽग्निकायो न विक्षायिष्यति जतुं च तापयिष्यामीति चिन्तयन्नेमयोपमया इत्यादि पूर्ववत् । अत्यच्च — यथा नामैको इषुकारकस्तुषेष्वग्निकायं शेषं तदेव, केवलमिषु तापयिष्यामीति । अम्बटाध्ययनस्य यौगन्धरायणाध्ययनमिति युक्ततरं नाम भवेत् ।
26
कतरो धर्मः प्रज्ञप्तः ? धर्मं न सम्यग् जानीथेति भावः । हे आयुष्मन्तः सर्वं धर्मं यदि वा हे सर्वे आयुष्मन्तो धर्मं मम मत्तो वा शृणुत ! केनार्थेन ब्राह्मणवर्णाभा न तु ब्राह्मणाः सन्तो माहण त्ति मा हन्तेति श्लेषाद् युद्धं शिक्षन्ते हिंसां प्रकुर्वन्ति (1)।। शस्त्रजीविनो हि यागे भवन्ति ब्राह्मणाः, लौकिकव्यापारेषु तु राजानः क्षत्रिया वणिजो वैश्याश्च स्वधामानि स्वगृहाणि स्वात्मनो वा पिनिदधति निरुन्धन्ति विवेकात् ब्रह्मपालनाच्चेति तृतीय श्लोकस्योत्तरार्धं द्वितीयस्य पूर्वार्धन सम्बन्धनीयम् ( 2 - 3 ) ।। अन्धेन युगेनाचक्षुष्मता वाहयुग्मेन विपर्यस्त
450 इसिभासियाई सुत्ताई