SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ भ्रष्टोपदेश इव देशको गुरुस्तथा कर्म च्छिन्नमूलं ( 24 ) ।। येन कर्मणा युज्यते पुरुषस्तादृशं वेषं धारयति नटो यथा रङ्गमध्ये वृत्तकान्तिसमर्थः (25)।। चित्रा नानाप्रकारा विविधोदया च देहिनां संसारसंन्ततिः सर्वे द्रुमालया वनानीव भवन्ति सर्वपुष्पफलोदयाः (26)।। (27 30 यथा पञ्चदशेऽध्ययन एकादशादयः श्लोकाः) चञ्चलं सुखमादाय सक्ता मोहे मानवा भवन्त्यादित्यरश्मितप्ता इव मत्स्याः क्षीयमाणपानीयाः ( 31 ) | | अध्रुवं राज्यं संश्रिता नरा अवशाः संक्षयं प्राप्नुवन्ति फलार्थिन इव च्छेद्यं तरुमारूढाः (32)।। (33) (34) ।। मोहमोहितो मोहीनां मध्ये क्रीडति मोही यथा ग्रहीणां ग्रहवतां ग्रहगृहीतानां मध्ये ग्रही यथार्थं ग्रहमोहितः (35)।। नान्यत् कर्म नान्येषां देहिनां कर्म बध्नन्तो निर्जरयन्तश्च भवन्ति देहिनः, किं तु स्वकीयमेव, यथा वारिग्राहा घटीतो घट्यमाननिबन्धना भवन्ति, गृहीतं वारिमात्रं घटीमात्राधीनं भवतीति भावः ( 36 ) ।। बध्यते मुच्यते चैव जीवाश्चित्रेण नानाप्रकारेण कर्मणा, यथा रज्जुपाशैर्बद्धः कश्चिदन्यस्य प्रयोगेनेर्यते चाल्यते (37)।। (38) ( 39 ) ।। निश्चलं कृतारोग्यं त्रैलोक्यसंस्कृतं स्थानमुत्तमं प्राप्नुवन्ति जीवाः सर्वज्ञमार्गानुगताः ( 40 ) || हरिगिर्यध्ययनम् । 25 ततश्चाम्बटः परिव्राजको यौगन्धरायणमेवमवादीद् यथा देवानुप्रिय, मनसि मे गर्भवर्षाभ्यो मैथुनाद् विरतिः, कथं न त्वं ब्रह्मचारी भवसीति । ततो यौगन्धरायणोऽम्बटं परिव्राजकमेवमवादीद् यथा हारिताः पुरुषा एभिरेभिश्च तावदादानैः कर्मोपादनैः। ये खलु हारिताः पापैः कर्मभिरवियुक्तास्ते खलु गर्भवर्षासु सजन्ति। ते स्वयमेव प्राणिनोऽतिपतन्त्यन्यानपि जनान् प्राणिनोऽतिपातयन्त्यन्यानपि जनान् प्राणिनोऽतिपातयतोऽनुमोदयन्ति समनुजानन्ति, एवमेव मृषा भाषन्त इत्यादि करणत्रिकम्, अविरता अप्रतिहताप्रत्याख्यातपापकर्मणो मनुजा इत्यतत्क्षणात् पठितव्यत्वादिहापास्यम्, ते स्वयमेवादत्तमाददते अब्रह्म-परिग्रही गृह्णन्तीत्यालापकः पूर्ववत् । एवमेव तेऽसंयताऽविरता अप्रतिहताप्रत्याख्यातपापकर्मणः क्रियावन्तोऽसंवृता एकान्तदण्डा एकान्तबाला बहु पापं कर्म कलिकलुषं समर्ज्येतश्च्युता दुर्गतिगामिनो भवन्त्येभिर्हारिता आदानैः । ये खलु आर्याः पापैः कर्मभिर्विप्रमुक्ता भवन्ति ते खलु गर्भवर्षासु न सजन्ति। ते न स्वयमेव प्राणिनोऽतिपतन्तीत्यादि विपरीतं पूर्वं यावदक्रियावन्तः संवृता एकान्तपण्डिता व्यपगतरागद्वेषास्त्रिगुप्तिगुप्तास्त्रिदण्डोपरता निःशल्या आत्मरक्षिणो व्यपगतचतुः कषायाश्चतुर्विकथाविवर्जिताः पञ्चमहाव्रतधराः, धर त्ति अपरित्याज्यं, पुस्तकेषु तु न दृश्यते, तिगुत्त त्ति त्रिगुप्त न ऋषिभाषित संस्कृत टीका 449
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy