________________
शिवमित्यादिविशेषितं सिद्धिगतिनामधेयं स्थानं संप्राप्तोऽनागताध्वानं शाश्वतं कालं स्थास्यामीति प्रतिबोधितस्य कस्यचिदध्यवसायः।। रामपुत्रीयाध्ययनम्।
24
सर्वमिदं पुरा भव्यं भवितव्यावेक्षम्, इदानीं पुनरभव्यं भवितव्यानवेक्ष भवति। च्यवन्ते खु भो नैरयिका नैरयिकत्वात् तिर्यंग्योनस्तिर्यग्योनित्वान्मनुष्या मनुष्यत्वाद् देवा देवत्वाद्, अनुपरिवर्तन्ते जीवाश्चतुरन्तं संसारकान्तारं कर्मानुगामिनः। तथाऽपि मम जीव इहलोके सुखोत्पादकः, परलोके दःखोत्पादकोऽनिजोऽध्रुवोऽनित्यः, अणितिए अणिच्चे त्ति पदे समव्युत्पत्ती, सजति यावन्मुह्यत्यध्युपपद्यते विनिघातमापद्यते। इमां च पुनः शटन-पतन-विकिरणविध्वंसनधर्मामनेकयोगक्षेमसमायुक्तां जीवस्यातील् संसारनिर्व्यष्टिं करोति लोकप्रपञ्चं सेवते। इमां संसारनिय॑ष्टिं कृत्वा संसारकान्तारमनुपरिवर्तते। तं त्वनुवृत्य संवेग-निर्वेदौ गत इति अर्थपूरणार्थमध्याहार्यं, परं तु शिवमित्यादि यावत् चिट्ठिस्सामि त्ति अपास्यं मिथ्येह निवेशितत्वात्। तस्मादध्रुवमशाश्वतमिदं संसारे सर्वजीवानां संसृतिकारणगिति ज्ञात्वा ज्ञान-दर्शन-चारित्राणि सेविष्ये तानि सेवित्वा संसारकान्तारं व्यतिपत्य शिवं स्थानमभ्युपगतः स्थास्यामीत्यत्र निश्चयः।
वाडधाणे त्ति पदस्यार्थो न ज्ञायते (1) (2)।। वट्टि त्ति वृत्तिः परिवर्तः, शीघ्रया तया समायुक्ता रथचक्रे यथाऽराः स्फटन्तो वा भङ्गरा वल्लिच्छेदास्तथा शरीरिणः पुरुषस्य सुहदुक्खे त्ति द्विवचनं संस्कृतकल्पम् (3)।। संसारे सर्वजीवानां गृद्धिः संपरिवर्तत उदुम्बरतरूणां प्रसवदोहदो यथा व्यसनोत्सवकारणं स्त्र्यङ्गचेष्टादीनां हेतुः (4)। वह्निमित्यादि सद्यो मेधमिव चिन्तयेद् अकाण्ड आगमन-गमनशीलम् (5)।। (6) (7) (8) (9) (10)।। वत्तेयणिच्चत त्ति वर्तते वर्तेत वाऽनित्यता, षोडशेऽपि श्लोके एवमेव (11)।। (12) (13) (14) (15) (16) (17)।। या कान्तिर्वयोऽवस्था वा येन कर्मणा युज्यते तादृशी तस्या निर्वृत्तिर्भवति वाचः प्रतिश्रुदिव (18)।। ताहं तासाम्, इह सम्बन्धे तु ताभ्यां कान्ति-वयोभ्यां कृतेनोदयेनोद्भूता नानागात्रविकल्पिता अनेकगात्रेषु कृता भङ्गोदयाः संसारे सर्वदेहिनामनुवर्तन्ते ताभ्यामनित्यत्वात् (19)।। (20)।। अथ कर्मोच्यते। बुध्यते चैव कर्म हेतुयुक्तं शुभाशुभं यथा वल्लीनां फलाफलं पर्याप्तफलान्यपर्याप्तफलानि च बुध्यन्ते (21)।। स्वयमात्मप्रयत्नेन च्छिन्नादानमप्युपादानं छिन्नं यस्य तत् कर्म भुज्यते, न तद् वय॑तेऽवश्यं वेदनीयं भवति, यथा वल्लीनां फलाफलमिति पूर्ववत् पूर्वोत्पन्नं छिन्नमूलमपि भुज्यते (22)।। (23)।। अप्ररोहि यथा बीजं धूमहीन इवानलो नष्टसंज्ञो 448 इसिभासियाई सुत्ताई