________________
18
अयतो त्यक्तयत्नः खलु भो जीवः पुरुषो वज्रं हिंसां समाददाति। कथमेतत्? प्राणातिपातेनादिनारतिरतिभ्यां मृषामायया मिथ्यादर्शनशल्येन वज्रं समादाय हस्तादिच्छेदनानि प्रत्यनुभवमानाः संसारसागरमनुपरिवर्तन्ते जीवा यथोक्तं नवमाध्ययने। यः खलु भो जीवो वज्रं न समाददाति, कथमेतत् ? अस्यास्तु पृच्छाया उत्तरादवियोजनीयत्वाद् ऋषि-नाम अयत इत्यादि प्रथमवाक्यमनुसारयितव्यम्। उत्तरं तु यथा प्राणातिपातादिविरमणेन श्रीत्रादीन्द्रियनिग्रहेण वज्रमसमर्व्य हस्तादिच्छेदनानि व्यतिपत्य शिवं स्थानमभ्युपगतास्तिष्ठन्ति। शकुनी शङ्कुप्रघातं तथा वारिपात्रधरो वरत्रं रज्जु च विभज्य विभावयेताम् (1)।। वार्षगण्याध्ययनम्।
19 सर्वमिदं जगत् पुराऽतीतकाल आर्यमासीत्।—(1)।। (2) (3) (4)।। किंरूपं तु तदार्यमिति आर्यं साधु ज्ञानादित्रयं, तस्माद् आर्य सेवस्व (5)।। आर्यायणाध्ययनम्।
20 उत्कटाः पञ्च प्रज्ञप्ताः, तद् यथा दण्डोत्कटो रज्जूत्कटः स्तेनोत्कटो देशोत्कटः सर्वोत्कटः। दण्डोत्कटो नाम यो दण्डदृष्टान्तेन आद्यमध्यावसानानां प्रज्ञापनया समुदयमानं शरीरमित्येतान्यभिधानानि व्याहरन् नास्ति शरीरात् परं जीव इत्येतेन प्रवादेन च भव-गति-व्यवच्छेदं वदति। रज्जूत्कटो नाम यो रज्जुदृष्टान्तेन समुदयमात्रशरीरप्रज्ञापनया पञ्चमहाभूतस्कन्धमानं शरीरमित्येतान्यभिधानानि व्याहरन् संसारसंसृतिव्यवच्छेदं वदति। स्तेनोत्कटो नाम योऽन्यशास्त्रदृष्टान्तग्राहैः स्वपक्षोद्भावनानिरतो ममैतदितिव्याहरन् परकरुणच्छेदं वदति। देशोत्कटो नाम योऽस्ति न्वेष जीव इति सिद्धे सति अकादिकैाहैीवस्य देशोच्छेदं अपूर्णं छेदं वदति। सर्वोत्कटो नाम यः सर्वतो जीवस्य संभवाभावान् न तृतीयं संभवासंभवयोः परं प्रागुक्तं देशसम्भवं भवति, किं तु सर्वतः सर्वथा सर्वकालं नास्ति जीव इति सर्वच्छेदं वदति। एतं नास्तिकवादमदाहरति यथा ऊर्ध्वं पादतलेऽधः केशाग्रमस्तके एष आत्मपर्ययः कृत्स्नस्त्वक्पर्यन्तो जीवः एष जीवो जीवति, एतज्जीवितं भवति। यथा दग्धेषु बीजेषु न पुनरङ्कुरोत्पत्तिर्भवति एवमेव दग्धे शरीरे न पुनः शरीरोत्पत्तिर्भवति। तस्मादिदमेवजीवितं, नास्ति परलोको, नास्ति सुकृतदुष्कृतकर्मणां फलवृत्तिविशेषः। न प्रत्यायान्ति जीवा, न स्पृशन्ति पुण्य-पापे, अफलं कल्याणपापकम्। तस्मादेतत् सम्यगिति ब्रवीमि यथा
ऋषिभाषित संस्कृत टीका 445