________________
ऊर्ध्वमित्यादि यावत् त्वक्पर्यन्तो जीवः । एष मृतो, नैतज्जीवितं भवति । यथा नामादग्धेषु बीजेष्वन्याङ्कुरोत्पत्तिर्भवति एवमेवादग्धे शरीरेऽन्याङ्कुरोत्पत्तिर्भवति, तस्मात् तपःसंयमाभ्यां मूले शरीरं दग्ध्वा न पुनः शरीरोत्पत्तिर्भवतोति II— चिह्नितपुस्तकानुसारेणाध्याहार्यं नास्तिकं प्रत्युक्तम् तस्मात् पुण्यपापाग्रहणात् कर्मलब्धसुखदुःखसंभवाभावाच्छरीरदाहे पापकर्माभावाच्च शरीरं दग्ध्वा न पुनः शरीरोत्पत्तिर्भवति।। उत्कटाध्ययनम्।
21
नाहं पुरा किञ्चज्जानामि सर्वलोके । — अज्ञानमूलमज्ञानं कारणं यथा तथा खलु भो पूर्वं न जानामि न पश्यामि नाभिसमवैमि नाभिसंबोधामि ज्ञानमूलं खलु भो इदानीं जानामि यावद् अभिसंबोधामि । अज्ञानमूलं खलु मम कामैः कृत्यं करणीयम्, ज्ञानमूलं खलु मम कामैरकृत्यमकरणीयम् । अज्ञानमूलं जीवाश्चतुरन्तं संसारं परिवर्तन्ते, ज्ञानमूलं जीवास्तं व्यतिपतिन्ति । तस्मादज्ञानं परिवर्ज्य ज्ञानमूलं सर्वदुःखानामन्तं करिष्यामि कृत्वा शिवमचलं यावच्छाश्वतं स्थानं अभ्युपगतः स्थास्यामि। ( 1 ) ।। अज्ञानवशान्मृगा विहंगाः पक्षिणो मत्तवारणाश्च पाशैर्बध्यन्ते, मत्स्या आमिषेभ्यः स्रंसन्ति, अज्ञानं सुमहद्भयं भवति (2)।। (3) (4)।। दीपे पातः पतङ्गस्य कौशिकारेः पक्षिणो बन्धनं किम्पाकफलभक्षणं च त्रीण्येतान्यज्ञानस्य निबन्धनानि भवन्ति ( 5 ) ।। अज्ञानमोहितो वृद्धः सिंहः कथाप्रसिद्धो द्वितीयं सिंहमुदपानस्थं दृष्टवान् संभग्नगात्रयष्टिर्निधनं गतो मृतः (6)।। सिंहश्च भुजङ्गश्चाज्ञानविमोहितौ ग्राहदंशनिपातेन द्वावपि विनाशं गताविति का कथेति न ज्ञायते ( 7 ) ।। सुप्रियं तनुजं माता भद्रा नामाज्ञानविमोहिता तत्प्रतिबोधशोकेनात्मघातं कृत्वा व्याघ्रीभूता क्रुद्धा सत्यभिद्रुत्याखादीदिति सुकोशलमातृसहदेवीकथा, सा तु किमिहाधिक्रियते न वेति शङ्क्यते (8) ।। औषधानां विन्यासः संयोगानां योजनं भेषजानां मिश्रणं विद्यानां च साधनमज्ञानेन न सिध्यति, सिध्यति तु ज्ञानयोगेन ( 9, 10 ) ।। गृहपतिपुत्राध्ययनम्।
22
परिशाति हिंसकं कर्म, अपरिशातिनो बुद्धाः, तस्मात् खल्वपरिशातिनो बुद्धा नोवलिप्यन्ते रजसा पुष्करपत्रमिव वारिणा । ——– धर्मा इति ग्रामधर्मा मैथुनाभिलाषः । ग्रामधर्माः पुरुषादिकाः पुरुषप्रवराः पुरुषज्येष्ठाः पुरुषमेवाधिकृत्य कल्पिताः प्रद्योतिताश्च पुरुषं समन्वागता भवन्ति, पुरुषमेवाभियुज्य पुरुषमवेक्षमाणास्तिष्ठन्ति । यथा नामारतीति गण्डविशेषः स्याच्छरीरे जाता शरीरे वृद्धा शरीरं समन्वागता शरीरमेवाभियुज्य तिष्ठति, एवं गण्डः स्फोटो शरीरे जात 446 इसिभासियाई सुत्ताई