________________
दुःखपीड़ितो बाहिरं वस्तु भृशं निन्दति, न तु दुःखोत्पत्ति-विनाशौ प्राप्नोति सिंह इवेति द्वे पदे अतिरिक्ते ( 21 ) ।। व्रणं वह्निं कषायान् ऋणं चाऽऽमगं ति रोगं च यद् वाऽप्यन्यद् दुःस्थितं तद् उद्वहन्तोऽनुभवन्तः पीवरं महद् दुःखं प्राप्नुवन्ति मानुषाः (22)।। वहिस्स त्ति वह्नेर्ऋणकर्मणः आमकस्स त्ति रोगस्य व्रणस्य च निःशेषं घातिनां यथासंख्यं निवारयितुर्दातुश्चिकित्सकस्य च श्रेय आनन्दो भवति गतमिति, वह्न्यादीनि तु कालेन प्रत्यागमिष्यन्ति यथा द्रुमश्छिन्नोऽपि पुना रोहति (23)।। यथा वह्निर्भस्मच्छन्नो वा यथा रिपुर्गूढक्रोधो वा तथा लीनं गूढ़ पापकर्म दुःखसन्तानसङ्कटं भवति ( 24 ) ।। (25) (26) (27) (28) ।। मधुरायणीयमध्ययनम्।
16
यस्य खलु भो इन्द्रियाणि विषयाचारा न परिस्रवन्ति द्रवैरिव, स खलु भवत्युत्तमः पुरुषः।—तद् परिस्रावणं कथमिति पृच्छा । मनोज्ञेषु शब्देषु रूपेषु गन्धेषु रसेषु स्पर्शेषु श्रोत्र-चक्षुर्नासा-तालु-त्वग्विषयप्राप्तेषु न सजेत न रज्येत न गृध्येत नाध्युपपद्येत न विनिघातमापद्येत । मनोज्ञेषु शब्दादिषु श्रोत्रादिविषयं प्राप्तेषु संजमानो रज्यमानो गृध्यमानोऽध्युपपद्यमानः सुमनाः सदभिप्रायवांस्तान् आसेवमानो विप्रवहतः पापकर्मणो भवति आदानाय तत् कर्माऽऽददातीत्यर्थः । तस्मात् तेषु मनोज्ञेषु प्रागुक्तेषु न सजमान इत्यादि न सुमना इस्याद्युक्तपापकर्मणा न दुष्येत्। (1)।। (2)।। वह्निः परिणामतेजः शरीरमाहारं ति आहारेण यथा युनक्ति योगेन कारणेन तथा योगान् विजानीहीन्द्रियाणि तत्प्रयोगांश्च युञ्जतः इति श्लोकस्योत्तरार्धस्य शङ्कनीयोऽर्थः ( 3 ) । । शौर्यायणाध्ययनम् ।
17
यया बन्धनं च मोक्षं च जीवानां च गत्यागतावात्मभावं च जानाति सा विद्या दुःखमोचनी (2)।। इयं विद्या महाविद्या भवति सर्वविद्यानामुत्तमा, यां विद्यां साधयित्वा सर्वदुःखेभ्यो मुच्यते ( 1 ) ।। एष त्वर्थत एव श्लोकयोरनुक्रम इति व्यक्तम् (3)।। ( 4 ) ।। मर्म सशल्यजीवं च पुरुषं वा मोहघातिनं गुरुं शल्योद्धरणयोगं च यो जानाति स शल्यहा ( 5 ) ।। ( 6 ) ( 7 )।। परकीयसर्वसावद्ययोगं दुश्चरितमिहाद्य नाचरेत् अपरिशेषं सर्वथा निरवद्ये चरिते स्थितस्य न कल्पते पुनरपि सावद्यं सेवितुम् । एतानि गद्य - पदानि विदुनामर्षेर्भाषितमिति दृश्यते, पूर्वगतास्तु तृतीयादयः श्लोकाः शेषभाषितानां कल्पेन तद्विवरणत्वाद् गद्यानुबद्धव्याः।। विद्वध्ययनम्।
444 इसिभासियाई सुत्ताई